३४६ शब्दापशब्दविवेके
२७. युधिष्ठिरः श्रेष्ठतमः कुरूणाम् ।
२८. वापीकूपतटाकादिभिरलंकृता सुपथीयं नगरी किमपि रामणीयकं
धत्ते ।
२९. अहिंसयैव वार्या आक्रन्तारः शत्रव इसि श्रीगान्धी स्माह ।
३०. उषः पुत्त्रि ! चिरायुषी भूयाः, सुखं च जीव्याः ।
३१. व्यापारेण विदेशेषु यथेष्टं वित्तमुपायं पात्रेषु प्रतिपादयेत्१ ।
३२. आत्मनिर्भरा लोका: प्रसीदन्ति सीदन्ति चेतरे ।
३३. प्रेम्णः पयः पायं पायं रमन्ते चिराय प्रजाः ।
३४. अपाङ्गानामशक्तानमेव गवां रक्षणं गोरक्षा न भवति ।
३५. परनिन्दयैव रिक्तं कालं यापयन्ति केचिदधन्याः ।
२७. यदा प्रकर्षवतामपि प्रकर्षो विवक्ष्यते तदाऽऽतिशायिकादपर आति-
शायिकः प्रत्यय इष्यत इति श्रेष्ठतम इत्यदुष्टम् ।
२८. ननु इनः स्त्रियामिति कपः प्रसङ्गः । शोभनाः पन्थानोऽस्यां नग-
र्यामिति सुपथिकेति स्यात् । न पूजनादिति निषेधस्तु षचः
प्राचीनानामेव । कप्प्रत्ययस्तु षच उत्तरः । सत्यम् । समासान्त-
विधेरनित्यत्वात्समाधेयम् । युवोरनाकौ इति सूत्रे सुपथीति
भाष्याच्च । सुपथीति रूपं च स्त्रियां नान्तलक्षणे ङीपि भत्त्वा-
ट्टिलोपे सिद्धम् ।
२९. क्रमेरुदात्तत्वादिटि आक्रमितार इति साधु ।
३०. चिरायुर्भूया इत्येव साधु । स्त्रीप्रत्ययानां ङीप्ङीष्डीनामप्राप्तेः ।
अदन्तात् तद्विधेः ।
३१. वणिग्व्यापारेणेति वक्तव्यम् । व्यापारशब्दः केवलो वाणिज्यं नाह
३२. आत्मावलम्बाः स्वाश्रया इति वा वक्तव्यम् । निर्भरशब्दस्तु
नात्रार्थे क्वचित्प्रयुक्तपूर्वः ।
३३. प्रेमपय इति वक्तव्यं समस्तेन व्यस्तेन वा रूपकेण । षष्ठ्या तु
नार्थः ।
३४. अपाङ्गशब्दो नेत्रप्रान्ते रूढः । रूढिर्योगापहारिणीत्यपाङ्गशब्दो
बलान्नेत्रप्रान्तं स्मारयति । तेन न्यङ्गानामिति वक्तव्यम् ।
३५. रिक्तमित्यनुक्त्वाऽनुपयुक्तमनुपयोगं निर्व्यापारमिति वा वक्त-
व्यम् ।१. वितरेत् ।