३५२ शब्दापशब्दविवेके
७३. मौहम्मदा अकारणमेव हिन्दूनद्विषुः ।
७४. महार्घता पिशाची मुखं व्यादाय निगलितुमिवोपधावति ।
७५. अवसितं नो नगरे कृत्यम्, सम्प्रति ग्रामं गन्तुमुपक्रम्यामहे ।
७६. इदमभ्युपेयं भवति न खलु दैवानुग्रहादृते सिध्यन्ति कर्माणि
यत्नारब्धान्यपीति ।
७७. अद्य ह्यो वा प्रातः शाकमभुञ्ज्महीति न सुष्ठु स्मर्यते ।
७८. मन्ये मूर्तिमदस्य पापजातं समुदस्थीयत२ ।
७९. अयं श्रुतपूर्वी भारतम्, तेनाऽस्य विदिता वृत्तान्ताः कुरुपाण्डवा-
नाम् ।
८०. सेयं सेव्यतां सुधीभिः सुरसरिदिव पावना देववाणी ।
७३. द्विषश्चेति लङो झेर्जुसीति साधु । पक्षेऽद्विषन्निति रूपम् ।
७४. निगलितुमिति वा निगलीतुमिति वा वक्तव्यम् । तुमुनि इटि
गुणो दुर्वार: । ग्रोऽचि विभषेति पाक्षिकं लत्वम् । वृतो वेतीटो
वा दीर्घः ।
७५. प्रोपाभ्यां समर्थाभ्यामिति क्रमेरात्मनेपदं साधु । शप: श्यन्वा ।
७६. अभ्युपेयमित्यस्य साधुत्वमभिशङ्क्यते । एतिस्तुशास्वृदजुषः
क्यप् इतीण् गतावित्यस्मात्क्यपा भवितव्यम् । सत्यम् । ईङ्
गतौ देवादिकाद्यत् ।
७७. अनद्यतने लङ् इत्यत्रानद्यतने इति बहुव्रीहिः । अविद्यमानोऽद्यतनो
(कालः) ऽस्येति विग्रहः । अत्र तु व्यामिश्रः कालः, अद्यतनानद्यत-
नयोर्व्यतिकरात् । तेनात्राभुक्ष्महीत्येव वाच्यम् ।
७८. समुदस्थादिति वक्तव्यम् । चेष्टाया अभावादात्मनेपदं न । कतरि
समुदस्थीयतेति रूपमनुपपाद्यम् ।
७९. पूर्वं श्रुतमनेति श्रुतपुर्वी । सपूर्वाच्चेतीनिः । इनिरयं तद्धितः ।
तद्धितप्रत्ययेनानुक्ते कर्मणि द्वितीया ।
८०. पावनी देववाणीति वक्तव्यम् । पूञ् पवने इत्यस्माण्ण्यन्ताल्ल्यु-
प्रत्यये पावनमिति निष्पद्यते । पावयतीति पावनम् । पावनशब्दो
गौरादिषु पठ्यते । ततो ङीषि पावनीति शब्दरूपनिष्पत्तिः ।
१. आरभामहे । २. उत्थितम् उदितम् ।