३७२ शब्दापशग्दविवेके
२२५. द्वाराणां नव संनिरुध्य. '''यावत् तिष्ठति तावदेव महतां सङ्गो
न संस्तूयते (यो. चूडा० उ० १०७) ।
२२६. कति धर्मद्वाराणि कति तत्त्वानि कत्यागमा इति विषये या
सामग्री पुराणेषु वितता तामेकत्र संगृह्य विचारोऽत्र विहितः ।
२२७. प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि
(किराते) ।
२२८. विमानना सुभ्रु पितुर्गृहे कुतः (कु०) ।
२२९. जरीजागरीति पाणिनीयं सर्वशास्त्रोपकारकम् ।
२३०. वर्गाश्रमेतराणां नो ब्रूहि धर्म्मानशेषत: (याज्ञ० १।१) ।
२३१. भारो न बाधते राजन् यथा बाधति बाधते (भोजप्रबन्धे)।
२२५. नव द्वाराणि इति वक्तव्यम् । आ नवदशभ्य: संख्यावचनाः
संख्येये वर्तन्ते न संख्यायाम् । धर्मिवृत्तय एते न धर्ममात्रवृत्तयः ।
२२६. सामग्रीति सामग्र्यं साकल्यं कार्त्स्न्यमाह । कस्य सेत्याकाङ्क्षा
तु न शाम्यति । तेन सामग्रीति केवल: शब्दो न प्रयोक्तव्यः,
विवक्षितार्थस्यानवगमात् । प्रकृते प्रमेयसामग्रीति वक्तव्यम् ।
२२७. प्रियमधुकेति कपि समासान्ते भविष्यति । उरःप्रभृतिषु मधु-
शब्दपाठान्नित्यः कबिष्यते । प्रियं मधु यस्याः सा षट्पदाली
प्रियमधुका ।
२२८. नेयङुवङ् स्थानावस्त्री इति नदीसंज्ञा प्रतिषेधात् 'सुभ्रु' इत्यत्र
ह्रस्वो दुर्लभः । समाधिस्तु पुरस्तादुक्तः ।
२२९. जागृ निद्राक्षये इत्यनेकाच् । ततो यङ्लुकौ दुर्लभौ । धातोरे-
काचो हलादेः क्रियासमभिहारे यङ् इत्येकाचो हलादेर्धातो र्यङं
विधत्ते । भृशं जागर्तीति तु वक्तव्यम् ।
२३०. वर्णाश्चाश्रमाश्च इतरे चेति वर्णाश्रमेतराः, तेषां वर्णाश्रमेतरा-
णाम् । द्वन्द्व सर्वनामतानिषेधात्तन्निमित्तक: सुडागमो नेति सर्व-
मवदातम् ।
२३१. अनुकरणान्यनुकार्यणार्थनार्थवन्ति भवन्तीत्येकः पक्षः, अनर्थकानि
तानीति चापरः । अनुकरणानुकार्ययोरभेदं स्वीकृत्याऽनुकरणे
शक्त्यभावादासत्त्वेन प्रातिपदिकत्वं न । अस्मिन्पक्षेऽनर्थकत्वाद्
बाधति शब्दस्य प्रातिपदिकत्वं नेति सुबुत्पत्तिर्न ।
.