पृष्ठम्:शब्दापशब्दविवेकः.pdf/३८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

३८० शब्दापशब्दविवेके


२७६. कथम् अयमस्तु धनपतिर्धनानाम् । (अथवं० ४।२२।३) २७७. मा रोदी वच्मि भद्रं ते तवाहं सा प्रियाऽभवत् (वराह० १२५। १२५) । २७८. ततः शक्तिं गदां खङ्गधनुश्च भरतर्षभः । प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः (भा० वन० १६२।१८) ।। २७९. वक्रः पन्था न गन्तव्यः प्रष्ठे वहति वर्त्मनि (न्यायमञ्जर्याम्) । २८०. सप्रभृतयो भवन्तीन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय (पञ्च० व्रा० १५।१।६)। २८१. यथा समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव (पञ्च० १।३४५) ।

२७६. इत्थं सर्ववेदभाष्यकारः सायण: पौनरुक्त्यदोषं परिहरति-धनानां पतिर्धनपतिरित्येव धनाढ्यत्वे सिद्धे पुनर्धनानामिति व्यस्तनिर्देश ईशितव्यस्य धनस्य बहुत्वख्यापनार्थः । नहि राजपुरुष इत्युक्ते राज्ञोः पुरुषः, राज्ञां पुरुष इति संख्याविशेषप्रतीतिरस्ति, किन्तु राजसम्बन्धमात्रं प्रतीयते । एवमत्रापि धनपतिरिति धनसम्बन्ध- मात्रेऽवगते तद्बहुत्वप्रतिपादनाय व्यस्तनिर्देश इति न पौनरु- क्त्यम् (अथर्व० ४।२२।३) । २७७.तवाहं सा प्रियाऽभवदिति प्रथमपुरुषोऽस्थाने । अस्मद्युत्तम(१।४।१०७) इत्युत्तम एवोचितः । सेति तु विशेषणम् । अहमिति च विशेष्यम् । २७८. प्राध्वं बन्धने (१।४।७८) इति गतिसंज्ञा कुतो नेति शङ्क्यते, सत्यां च संज्ञायां कुगतिप्रादयः (२।२।१८) इति नित्यसमासे कत्वो ल्यबा- देशे प्राध्वंकृत्येति स्यात् । अस्थाने शङ्कितं ते । बन्धनहेतुक पानु- कूल्ये वर्तमानः प्राध्वंशब्दो गतिर्भवति । इह तु केवलं बन्धनमर्थः । केवल आनुकूल्येपि (रघु० १।४३) इत्यत्र प्रयोगः । २७६. प्रष्ठोऽग्रगामिनि (८।३।९२) इत्यग्रगामिन्यर्थे प्रष्ठशब्दो निपातित प्रष्ठो गौः । यथाऽगच्छन्नपि पन्था गच्छतीत्युच्यते, तेन न कश्चिद् दोषः। २८०. सप्रभृतय इत्यत्र समानशब्दस्य सभावो दुष्यति समानस्य च्छन्द- स्यमूर्धप्रभृत्युदर्केषु (६।३।८४) इति प्रभृतेः पर्युदासात् । सप्रभृतयः समानोपक्रमाः । २८१. तर्तुमिति दुष्टम् । तरतिरुदात्तः । तेन वलादेरार्धधातुकस्येड् दुर्वारः । तरितुं तरीतुमित्येव रूपद्वयमदुष्टम् ।