एतत् पृष्ठम् परिष्कृतम् अस्ति



९७
बालानन्दिनीव्याख्यासहिता ।

 

नागं कूर्म च कृकलं देवदत्तं धनंजयम् ।
दशैता वायुविकृतीस्तथा गृह्णाति लाघवम् ॥ २६ ॥
तेषां मुख्यतरः प्राणो नाभेः कण्ठादवस्थितः ।
चरत्यसौ नासिकयोर्नाभौ हृदयपङ्कजे ॥ २७ ॥
शब्दोच्चारणनिश्वासोच्छ्वासादेरपि कारणम् ॥ २८ ॥
अपानस्तु गुदे मेण्ढ्रे कटिजङ्गोदरेष्वपि ।
नाभिकण्ठे वन्ह्क्षणयोरूरुजानुषु तिष्ठति ।
तस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितम् ॥ २९ ॥
व्यानोऽक्षिश्रोत्रगुल्फेषु जिहृा घ्राणेषु तिष्ठति ।
प्राणायामधृतित्यागग्रहणाद्यस्य कर्म च ॥ ३० ॥
सूमानी व्याप्युय निखिले शरीरं वह्निना सह ।
द्विःससतिसहस्रेषु नाडीरन्ध्रेषु संचरन् ॥ ३१ ॥


यद्यप्याकाशकार्यमध्ये लाघवं परिगणितमिति चेदुभयकार्यत्वान्न विरोधः ॥ २५.॥ २६ ॥ प्राणादीनां दशानां वायुविशेषाणां स्थानानि कार्याणि चाह-तेषामित्यादिभिः श्लोकैः । तेषां पूर्वोक्तवायुकार्याणां मध्ये प्राणो मुख्यतरः । सच नाभेः कण्ठात् नार्भिं कण्ठं च व्याप्यावस्थितः ।। "ल्यब्लोपे कर्मण्यधिकरणे च' इति प्रञ्चमी । असौ नासिकयोर्नासारन्ध्रयोर्नाभ्यादौ हृदयपङ्कजे च चरति ॥ २७॥ शब्दोचारणादिकारणं च प्राण इत्यनुवर्तते ॥२८॥। अपानस्त्विति ॥ गुदाद्विषु पञ्चसु नाभिकण्ठादिषु चतुर्षु च । तत्र वङ्क्षणशब्द ऊरुशब्दवाचकः । स्थानेषु अपानस्तिष्ठतीत्यन्वयः ॥ २९ । त्र्यानस्य स्थानकर्मणी अह-व्यान इति । अक्ष्यादिषु पञ्चस्थानेषु तिष्ठति ॥ प्राणायामः प्राणनिरोधः तत्र धृतिः कुम्भक इति .यावत्, त्यागो रेचकः, 'ग्रहणं पूरक्र इत्यादि अस्य व्यानस्य कर्मेत्यर्थः ॥३०॥ ननु "हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः क्रण्ठदे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/100&oldid=159954" इत्यस्माद् प्रतिप्राप्तम्