एतत् पृष्ठम् परिष्कृतम् अस्ति



१०३
बालानन्दिनीव्याख्यासहिता ।

 

श्रीभगवानुवाच ।


साधु पृष्टं महाभाग गुह्याद्गुह्यतमं हि यत् ।
देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥ ३ ॥
अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ।
त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः शृणु ॥ ४ ॥
सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ॥
परमात्मा परं ज्योतिरव्यक्तो व्यक्तकारणम् ॥ ५ ॥
नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ॥
सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च ॥ ६ ॥
नाहँ सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ।
ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥ ७ ॥
दूरः सर्वविकाराणां परमाण्वादिकस्य च ॥ ८ ॥


दूषणसद्भावः । संशयबीजं विना संशयप्रश्नानुत्थानात् ॥ २ ॥ एवं पृष्टो भगवानुवाच-साध्विति । त्वदुक्तसर्वपक्षेषु बाधकसंभवाद्रुरूपदेशेन विना दुर्ज्ञेयत्वात्साधु पृष्टमिति भावः । इदं तत्त्वं गहनमिल्याह-गुह्यादिति ॥ ३ ॥ ४ ॥ प्रतिबिम्बस्य जीवस्य स्वरूपं विवक्षुरादौ बिम्बस्वरूपमाह सार्धश्लोकेन वाक्येन-सॉयेत्यादिना । अव्यक्तः अविद्यावृतजीवानां, गूढः अव्यक्तस्य मायायाः कारणं भासकः ॥ ५ ॥ निर्लेपो निःसङ्ग उपचयशून्यो वा, निरञ्जनः क्रियारहितः। ‘लिप उपदेहे' उपदेहो वृद्धिः। ‘अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' । इति धातुद्वयादुक्तार्थो वेदितव्यः ॥ ६ ॥। न चैवं सर्वप्रत्ययवेद्यं ब्रह्मेति वार्तिककृतोक्तं विरुध्येतेति वाच्यम् । प्रपञ्चतादात्म्यापन्नस्य सर्वप्रत्ययवेद्यत्वेऽपि शुद्धस्योपनिषदेकगम्यत्वात् ॥ ७ ॥ दूर इति सर्वविकाररहितः । अनेन परिणामवादो निरस्तः । परमाण्वाधिकस्येत्यनेनारम्भवादोऽपि निरस्तः । विवर्तवादस्तु पूर्वाध्याये स्फु-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/106&oldid=161144" इत्यस्माद् प्रतिप्राप्तम्