एतत् पृष्ठम् परिष्कृतम् अस्ति



१०४
[ अध्यायः १०
शिवगीता ।

 

यतो वाचो नेिवर्तन्ते अप्राप्य मनसा सह ।
अानन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ९ ॥
यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ।
मां च सर्वेषु भूतेषु ततो न् विजुगुप्सते ॥ १० ॥
यस्य सर्वाणि भूतानि ह्यात्मैवाभूद्विजानतः ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ ११ ॥
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ।
अव्याकृतब्रह्मरूपो जगत्कर्ता महेश्वरः ॥ १३ ॥


टमभ्युपगतः ॥ ८ ॥ यतो वाच इति षष्ठाध्याये व्याख्यातम् ॥ ९॥ यस्त्विति । मय्यध्यस्तानीति मां च तेष्वनुस्यूतं पश्यति । ततोऽनन्तरं न विजुगुप्सते ब्रह्मात्मनैव सर्वग्रहणान्न किंचिदपि निन्दतीत्यर्थः ।। १०. ॥ यस्येति । अात्मैव सत्यः सर्वमन्यन्मिथ्येति बोधाय सामानाधिकरण्यभूतशोकमोहयोर्भेदः सापेक्षत्वात् ॥ ११ ॥ ननु तहिँ सर्वे कुतो वा त्वामात्मत्वेन न पश्यन्तीत्याशङ्क्य श्रुत्या परिहरते ‘यत्साक्षादपरोक्षाद्ब्रह्म' इतेि प्रत्यक्षसिद्धोऽपि मूढानां गूढ़ आत्मा न प्रकाशते यथोलूकस्य जगत्प्रकाशकः सविता तद्वतू । तर्हि क्रैः प्रत्यक्षीक्रियत इत्यत आह । अम्र्यया श्रवणादिसाधनसंस्कृतया बुद्ध्या सूक्ष्मदर्शिभिः सूक्ष्मं ब्रह्म द्रष्टुं शीलं येषां तैदृश्यते औात्मत्वेनापरोक्षीक्रियते न त्वन्यैः बहिर्मुखैरियर्थः । गूढ़ोत्मेतेि पृषोदरादित्वात्साधुत्वम् ॥ १२ ॥ नन्वद्वितीयश्चत्त्वं कथं तर्हि जगदुत्पत्तिस्वतः स्यात्परिणामिनोऽन्यस्य विरहादित्याशङ्क्याह-अनादीतेि । यद्यप्येकोऽहं सजातीयविजातीयस्वगतभेदशून्यः अव्ययो निर्वेिकप्रस्तथापि अनाद्यविद्यग्रा युक्त: सन् अव्याकृतं नामतो रूप-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/107&oldid=161145" इत्यस्माद् प्रतिप्राप्तम्