एतत् पृष्ठम् परिष्कृतम् अस्ति



१०८
[ अध्यायः १०
शिवगीता ।

 

अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ॥
दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठते ॥ २५ ॥
वालाग्रशतभागास्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयुः स चानन्त्याय कल्पते ॥ २६ ॥
कदम्बकुसुमोद्वद्धकेशरा इव सर्वतः ।
प्रसृता हृदयान्नाङयो याभिर्व्यासं शरीरकम् ॥ २७ ॥


वायुखरूपं तिष्ठति तस्य वायुसंचारस्थलस्य मध्ये हृदयं तिष्ठति । सनालं पद्मकोशवत् तत्संनिभमित्यर्थः ॥ २४ । अधोमुखमिति ॥ हृदयविशेषणम् । तत्र तस्मिन्हृदयपद्मे सूक्ष्मं सुषिरं छिद्रमुत्तमं जीवाधिष्ठानत्वात् अस्ति तद्दहराकाशमित्युक्तं श्रुतिभिः स्मृतिभिश्चेति शेषः । छान्दोग्यस्याष्टमाध्याये-‘‘अथ यदस्मिन्ब्रह्मपुरे दहरं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यं" इति प्रतिपादितम् । उक्तं चाभियुक्तैः *"उपलब्धेरधिष्ठानं ब्रह्मणो देह उच्यते । तेन साधारणत्वेन देहो ब्रह्म परं भवेत् ॥" इतेि । "दहर उत्तरेभ्यः" इत्यधिकरणे ब्रह्मैव दहराकाश इति निर्णीतं तत्र जीवोऽवतिष्ठत इत्यनेन जीवब्रह्मणोरभेद एव परमार्थत इति भावः सूचितः ।। २५ ॥। वालाग्रेति । वालाग्रं केशाग्रं तस्य शतभागः शततमांशः सोऽपि शतधा कल्प्यः । तस्यापि यो भागः स्त जीवो विज्ञेयः उपाधिवशाद्य इति सूक्ष्म इत्यर्थः । वास्तवं खु जीवस्वरूपमाह-सचेति । आनन्त्याय परिच्छेदविरहाय समर्थो भ्रवति । उपाध्यपगमे सतीति भावः ।। २६ ॥ अथ जीव प्रसङ्कादुपासकानां मूर्धन्यया नाड्या उत्क्रमणपूर्वकां क्रममुक्तिं कथयितुं नाडीस्तावत्प्रपञ्चयति-कदम्बेति । तथाच श्रुतिः "शतं चैका च हृदयस्य नाङयस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्र्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमेण भवन्ति” इति । यद्यपि द्वासप्ततिस-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/110&oldid=161348" इत्यस्माद् प्रतिप्राप्तम्