एतत् पृष्ठम् परिष्कृतम् अस्ति



१०९
बालानन्दिनीव्याख्यासहिता ।

 

हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ।
द्वासप्सतिसहस्रैस्ताः संख्याता योगवित्तमैः ॥ २८ ॥
हृदयात्तास्तु निष्क्रान्ता यथार्काद्रश्मयस्तथा ।
एकोत्तरशतं तास्तु मुख्या विष्वग्विनिर्गताः ॥ २९ ॥
वहन्त्यम्भो यथा नद्यो। नाङयः कर्मफलं तथा ।
अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥ ३० ॥
प्रतीन्द्रियं दशदश निर्गता विषयोन्मुखाः ॥
नाङयः शर्मादिहेतुत्वात्स्वप्नादिफलभुक्तये ॥ ३१ ॥


हस्रसंख्याकानां नाडीनां कदम्बो नाभौ तिष्ठति तथापि हृदयसंबन्धोऽप्यस्तीति हृदयादित्युक्तम् । याभिर्नाडीभिः शरीरकं व्याप्तम् ॥ २७ ।।॥ हितमिति । हितशब्दस्य विवरणं बलमिति । यस्मात्कारणात्प्रयच्छन्ति तेन कारणेन हिताः स्मृताः । हिता नाम हृदयस्य नाडय इति श्रुतिसिद्धैषा संज्ञा । तासां संख्यामाह-द्वासप्ततिसहलैरिति ॥ २८ । हृदयादिति । दृष्टान्तमाह-यथेति । तासु पूर्वोक्तसंख्यावतीषु नाडीषु एकाधिकशतं मुख्याः विष्वक्सर्वतः विनिर्गताः प्रसृताः ॥ २९ । वहन्तीति । यथा नद्योऽम्भ उदकं वहन्ति तथा नडयः कर्मफलं सुखदु:खादि वहन्ति तास्वेकोत्तरशतसंख्याकासु एका सुषुन्नाख्या अञ्जसा आञ्जस्येन । आर्जवेनेति यावत् । मूर्धपर्यंन्तं ऊर्ध्वं गच्छतीति ऊर्ध्र्वगा अनन्तफलत्वाचानन्ता सैवोच्यते ॥३०॥ अनन्तफलत्वमेव प्रतिपादयितुं इतरासां फलतावदाह-प्रतीन्द्रियमिति । ज्ञानकर्मेन्द्रियाणि मिलित्वा दश प्रतीन्द्रियं दशदश निर्गताः तत्तदिन्द्रियविषयाः शब्दादयो ज्ञानेन्द्रियाणां वचनादयः कर्मेन्द्रियाणां तान्प्रत्यभिमुखाः। शर्म सुखं आदिपदाद्दु:खं च तयोर्हेतुस्वान् । स्वप्नहेतुत्वाञ्च यथायथं जाप्रदादिसुखादिसाक्षात्कारायोपयु-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/111&oldid=161358" इत्यस्माद् प्रतिप्राप्तम्