एतत् पृष्ठम् परिष्कृतम् अस्ति



११२
[ अध्यायः १०
शिवगीता ।

 

जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ।
बोध्यावस्थां तिरोधाय देहाद्याश्रयलक्षणामू ॥ ४० ॥
कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।
अवस्थां च प्रयात्यन्यां मायावी चात्ममायाया ॥ ४१ ॥


प्राप्नोति तद्वल्लिङ्गशरीरे जाते जीवचैतन्यमभिव्यञ्जते । घटे नप्टे सति यथाकाशं स्वरूपेणावतिष्ठते तथा लिङ्गभङ्गे जीवः खरूपेण सच्चिदानन्दात्मनावतिष्ठते ।। "तदापीतेः संसारव्यपदेशात्" इत्यस्मिन्नधिकरणे तथैव व्यवस्थापनात्। अवतिष्ठत इति -'समवप्रविभ्यः स्थः' इति तङ् ॥ ३९ ॥। जाग्रदवस्थामभिधाय स्वप्नावस्थामाहजाग्रदिति ॥ जाग्रद्भोगप्रदं यत्कर्म तस्य क्षयवशात् प्रतिबन्धवशात् स्वप्नभोगप्रदे कर्मण्युद्भुद्धे सतेि। किं कृत्वा। ये जाग्रत्कालीनदेहगेहादयस्तेषामाश्रयणमाश्रयः । साक्षात्कार इति यावत्। तल्लक्षणं बोधावस्थां तिरोधाय आच्छाद्य ॥ ४० । कर्मेति । कर्मणा स्वप्नभोगप्रदेन उद्भावित उद्बोधितः संस्कारः स्वप्नगजादिजनकीभूतो यस्य स तथा । रिरंसया स्वप्ने नायं रमतामित्याकारिकयेश्वरेच्छयेत्यर्थः । रमेरन्तर्भावितण्यर्थात्सन् ततो भावे अप्रत्ययः । स्वप्नजाता घटपटादयः पदार्था अनुभूयन्ते स चानुभूतो न प्रमारूपः प्रमाकरणानामिन्द्रियार्थसंनिष्क्रर्षांदीनामभावात् । तस्मात्स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादिदोषजन्यत्वात् प्रातिभासिकत्वम् । यत्राध्यासे त्वविद्यैव दोषत्वेन हेतुस्तज व्यावहारिकत्वम्। यत्र विद्या चागन्तुकदोषश्चेति द्वयसध्यासे हेतुस्तत्र प्रातिभासिकत्वमिति सिद्धान्तः । ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपपत्तौ रथादिसृष्टिकल्पं गौरवादसांप्रतमिति चेन्न । स्वप्ने रथाद्यद्राक्षमित्यनुभवबविरोधापत्तेः।"अथ रथान् रथयोग्यान्यथः सृजते” इति "संध्ये सृष्ट्रिेस्सह हि"। "मायामात्रं तु काxxनातभिव्यक्तस्वरूपकम्" इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/114&oldid=161488" इत्यस्माद् प्रतिप्राप्तम्