एतत् पृष्ठम् परिष्कृतम् अस्ति



११३
बालानन्दिनीव्याख्यासहिता ।

 

घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ।
भूतानि कर्मवशतो वासनामात्रवस्थितान् ॥ ४२ ॥
एतान्पशयन्स्वयंज्योतिः साक्ष्यात्मा व्यवतिष्ठते ॥ ४३ ॥
अत्रान्तःकरणादीनां वासनाद्वासनात्मता ।
वासनामात्रसाक्षित्वं तेन तच्च परात्मनः ॥ ४४ ॥
वासनाभिः प्रपञ्चोऽत्र दृशयते कर्मचोदितः ॥
जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मकः ॥ ४५ ॥


रथादिसृष्टिप्रतिपादकश्रुतिन्यायविरोधापत्तेश्च । अतएव देशकालादिसर्वं प्रातिभासिकमेव । स्वप्नसृष्टिः साक्षान्मायापरिणाम इति प्रतिपादयति-आत्ममाययेति । तथाच मायावी जीवो जाग्रदवस्थातोऽन्यामवस्थामुक्तरूपां प्रयातीत्यन्वयः । विस्तरस्तु दीक्षितीयग्रन्थादवगन्तव्य इति दिक् ॥ ४१ ॥ स्वप्रपदार्थानां शुक्तिरजतादिवत्केवलसाक्षिवेद्यत्वमाह--घटादीति सार्धश्लोकेन । वासनया मातरि प्रमातरि अवस्थितान् । अन्तःकरणोपहितचैतन्ये अध्यस्तानित्यर्थः । तथाभूतान्सर्वान्घटादिविषयान् तथा कर्मवशतो भूतान्युत्पन्नानि बुद्ध्यादीनि करणानि च । एतान्पदार्थान्पश्यन्भासयन् साक्षिभूतात्मावतिष्ठत इति संबन्धः ॥ ४२ ।। ४३ । ननु स्वप्नसृष्टेरभ्युपगमे कर्थ तस्य वासनामात्रावस्थानत्वमिति व्यवहार इत्याशङ्कयाह-अत्रेति । अत्र स्वप्ने पूर्वोक्तानां पदार्थानामन्त:करणादीनां वासनात् वासनाख्यसंस्कारप्रभवत्वात् वासनात्मत्वं वासनास्वरूपत्वमिति यावत् । तेन कारणेन परात्मनो वासनामात्रसाक्षित्वम् ॥ ४४ ॥ वासनाभिरिति । वासनाभिः संस्कारैरत्र स्वप्ने प्रपञ्चः कर्मणा प्राक्तनेन चोदितः सन् दृश्यते । यथा जाग्रद्भृमौ तद्वत् । जाग्रति व्यावहारिकत्वं प्रपञ्चस्य । स्वप्ने तु प्रातिभासिक-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/115&oldid=161497" इत्यस्माद् प्रतिप्राप्तम्