एतत् पृष्ठम् परिष्कृतम् अस्ति



११५
बालानन्दिनीव्याख्यासहिता ।

 

यद्वत्प्रपतनाच्छ्ये: श्रान्तो गगनमण्डले ।
आकुञ्च्य पक्षौ यतते नीडे निलयनायू नी: ॥ ५० ॥
एव जाग्रत्स्वपनभूमौ श्रान्त अात्माऽभिसचरन् ॥
आर्पीतकरणग्रामः कारणेनैति चैकताम् ॥ ५१ ॥
नाडीमार्गैरिन्द्रियाणामाकृष्यादाय वासनाः ।
सर्वं ग्रसित्वा कार्य च विज्ञानात्मा विलीयते ॥ ५२ ॥
ईश्वराख्येऽव्याकृतेऽथ यथा सुखमयो भवेत् ॥
कृत्स्नप्रपञ्चविलयस्तथा भवति चात्मनः ॥ ५३ ॥


वा इयासुः । संभावितपरलोकगमन इति यावत्। आशङ्कायाँ सन् । तादृशो जनः कर्मणा विद्यादिभिश्च संभृतं लब्धप्रायं भाविनोी जन्मनो यद्रूपं तद्वासनावशात्स्वप्ने आत्मा प्रकर्षेण पश्यति । मिथ्याभूतस्यापि स्वप्नस्य सूचकतोपपत्तेः ।। सूचकश्च हि श्रुतेराचक्षते च तद्वदिति ।। ४९ ॥॥॥ एवं जाग्रत्स्वप्नावस्थे निरूप्य सुषुध्यवस्थां निरूपयति--तद्वदिति । गगनमण्डले प्रकृष्टपतनाद्बहुतराद्गमनात् श्रान्तः शयेनः नयतीति नीः श्रमपरिहारोपायं विचारयन्सन् पक्षावाकुञ्च्य नीडे निलयनाय संश्लेषाय यद्वद्यतते ॥ ५० ॥ एवं जाग्रत्स्वप्नभूमौअ संचरन् श्रान्त अात्मा जीवः अपीतो विलीनः करणग्राम इन्द्रियवर्गो यस्मिन्नेवंभूतः सन् कारणेनेश्वरेण सह एकतामेति प्राप्नोति । यद्यप्यामोक्षं जीवब्रह्मणोरौपाधिको भेदोस्त्येव तथाप्यहंकारविलयात्स्वरूपसुखांशो जाग्रत्कालापेक्षयाधिको भवति । दुःखं च नास्तीत्येतावन्मात्रेण एकतामेतीत्युक्तंम्। एतेन "सता सौम्य तदा संपनौ भवति प्राज्ञेन संपरिष्वक्तः' इत्यादिश्रुतयोऽपि विख्याताः ।। ५१ ॥ नन्वीश्वरेण सहैकातां प्राप्तश्वेत्तहिँ पुनरनुत्थानापत्तिरित्याशङ्क्याहनाडीतेि। विज्ञानात्मा जीवो नाडीमार्गेरिन्द्रियाणां वासनाः संस्कारान्समाकृष्याविद्ययेति शेषः । सर्वमविद्याकार्यं जाग्रत्स्वप्नरूपं ग्रसित्वा विलीयते।।५२। कुत्रेत्याकाङ्क्षायामाह-ईश्वरेति। ईश्वराख्ये अव्या-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/117&oldid=161706" इत्यस्माद् प्रतिप्राप्तम्