एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
अद्यायः १०
शिवगीता

 


योषितः काम्यमानायाः संभोगान्ते यथासुखम् ।
स अानन्दमयोऽबाह्यो नान्तरः केवलस्तथा ॥ ५४ ॥
प्राज्ञात्मानं समासाद्य विज्ञानात्मा तथैव सः ।
विज्ञानात्मा कारणात्मा तथा तिष्ठन्नथापि सः ॥ ५५ ॥
अविद्यासूक्ष्मवृत्त्यानुभवत्येव यथा सुखम् ॥
तथाहं सुखमस्वाप्सं नैव किंचिदवेदिषम् ॥ ५६ ॥


कृते मायोपहितचैतन्ये विलीयते । अतस्तत्र यानानन्तरं यथा सुखमयो भवति तथा कृत्स्नप्रपञ्चविलयो भवति । नायं लिङ्गभङ्गरूपः । तस्यामोक्षमवस्थानात् । किंतु संस्काररूपेणावस्थानमेव विलीयत इत्युच्यते । एवमेव कार्यब्रह्मणोऽपि दिनावसाने ईश्वरे विलयो द्रष्टव्यः ॥५३॥ कीदृशं तत्सुखमित्याकाङ्क्षायामाह-योषित इति । काम्यमानाया योषितः संभोगस्य अन्ते मध्य इत्यर्थः । यथासुखं सर्वेभ्यो वैषयिकसुखेभ्योऽधिकं सुखं भवति । तथा सुषुप्तावधिकं सुखं भवति । अतएव स आानन्दमयः । प्रचुरानन्द इत्यर्थः । तदानीं जीवः अबाह्यः विषयसंबन्धजनितवृत्तिविशिष्टज्ञानो न भवतीत्यर्थः । नान्तरः मोक्षावस्थायामिव निवृत्तमूलाचरणोऽपि नेत्यर्थ: । निर्बंतिकसुखाभिव्यक्तौ मोक्षः स्यात् । तस्मात्तत्राप्यहंकारवृत्तिरस्त्येवेति सिद्धान्तः । तदुत्तमाचार्यभगवत्पादैः ।। "सुप्तिगतः सुखलेशैरभिमनुते यः सुखी भवामीति । अानन्दकोशनामा सोऽहंकारः कथं भवेदात्मा ॥" इति ॥ ५४ ॥ तदेवाह-प्राज्ञेति । प्राज्ञात्मानमीश्वरं समासाद्य सुषुप्तौ प्राप्यापि सः सुषुप्तः विज्ञानात्मा जीवः तथा जाग्रदादौ यथा तद्वदनगतभेद इत्यर्थः । तथा तिष्ठन् भिन्नोऽपि सन् सः जीवः दुःखराहित्यसाम्यात्कारणात्मोच्यते । ईश्वर एवेत्युपचर्यत इत्यर्थ: ॥५५॥ ननु सुषुप्तावन्तःकरणस्य विलीनत्वात्सुप्तोत्थितस्य सुखमहमस्खाप्समित्यनुसंधानं न स्यादित्याशङ्कयाह--अविद्येति । अविद्यायाः सूक्ष्मकृत्या यथा सुखं भवति तथा सुखमहमस्वाप्समिति जीवोऽनुभव-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/118&oldid=162405" इत्यस्माद् प्रतिप्राप्तम्