एतत् पृष्ठम् परिष्कृतम् अस्ति



११८
[ अध्यायः १०
शिवगीता ।

 


एकाकारोऽर्यमा तत्तत्कार्येष्वेवं परः पुमान् ।
कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीव सः ॥ ६१ ॥
मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ।
देहाद्यतीत अात्मापि स्वयंज्योतिः स्वभावतः ।
एवं जीवस्वरूपं ते प्रोक्तं। दशरथात्मज ॥ ६२ ॥

इतेि श्रीपद्मपुराणे उपरिभागे शिवगीदासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवस्वरूपवर्णनं नाम दशमोऽध्यायः ॥ १० ॥




रामेण पृष्टं तदुत्तरत्वेन सप्रपञ्चम् तदुक्त्वा तात्पर्यं विशदयति-विज्ञानेति । सः परमात्मापि । एवार्थोऽपिः । विज्ञानात्मा जीवः कारणात्मा ईश्वरस्तथा तथा तिष्ठन् रूपद्वयेन स्थित इत्यर्थः । एषु अज्ञानतत्कार्येषु सत्स्वेव सर्वं जीवेश्वरादिभेदपूर्वकं प्रपञ्चजातं दृश्यते । अज्ञानादिषु नष्टेषु त्वदृश्यतामायाति ॥ ६० ॥ उत्तमर्थं दृष्टान्तेन द्रढयति--एकेति । एकाकारोऽपि एकोप्यर्यमा सूर्यः तत्तत्कार्येषु जलादिषूपाधिषु दृश्यते । एवं स परः पुमान्कूटस्थोऽपि निर्विकारोऽपि तद्वदुपाधिवशाद्भच्छत्यागच्छतीति दृश्यते ।।६१। ननु सर्वे विरुद्धधर्माः कथमेकत्र स्वीकार्या इत्याशङ्कयाह--मोहेति । मोहमात्र एवान्तरायः स्वरूपस्फूर्तिप्रतिबन्धकः तस्य भावस्तत्त्वं तस्मात्सर्वं विरुद्धधर्मादिकं तस्य परमात्मन उपपद्यते । विरुद्धधर्माणां स्वसमानभेदप्रयोजकत्वं नास्तीति भावः । तदुक्तम् "कूटस्थमनुपद्रुत्य करोति जगदादिकम्। दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः । मायाख्यायाः कामधेनोर्वत्सौ जीवेश्वरावुभौ । यथेच्छं पिबर्ता द्वैर्त तत्त्वं त्वद्वैतमेव हेि ॥" इति ॥ ६२ ॥॥ इति शिवगीताटीकायां दशमोऽध्यायः ॥ १० ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/120&oldid=162619" इत्यस्माद् प्रतिप्राप्तम्