एतत् पृष्ठम् परिष्कृतम् अस्ति



१२०
[ अध्यायः ११
शिवगीता ।

 


समीकरोति यत्तस्मात्समानो वायुरुच्यते ।
तदानीं तद्रसाभावादामबन्धनहानितः ॥ ५ ॥
परिपक्वरसत्वेन यथा गौरवतः फलमू ।
स्वयमेव पतत्याशु तथा लिङ्गं तनोर्व्रजेत् ॥ ६ ॥
तत्तत्स्थानादपाकृष्य हृषीकाणां च वासनाः ।
आध्यात्मिकाधिभूतानि हृत्पझे चैकतां गतः ॥ ७ ॥
ततोऽध्वगः प्राणवायुः संयुक्तो नववायुभिः ।
ऊर्ध्वोच्छ्वासि भवत्येष भवत्येष तथा तेनैकतां गतः ॥ ८ ॥


चाध्याहारः ॥ ४ ॥ वायुविशेषस्तु लिप्तान्धातून्समीकरोति । यद्यस्मात्तस्मात्समानो वायुरुच्यते । एषा तारुण्यावस्थायाः स्थितिरुक्ता । इदानीं जरसि जठरानलमान्द्यकाले तु तेषां भुक्तपीतानां रसस्याभावात् आमबन्धनस्य पूर्वोक्तस्य हानितः लेङ्गं तनोर्वज्रेदित्यनेन वक्ष्यमाणेन संबध्यते ॥ ५ ॥ परिपक्वेति । यथा कूष्माण्डादिफलं गौरवतः गुरुत्वात्स्वयमेव पतति तथा लिङ्गं तनोः स्थूलदेहाद्व्रजेत् । विश्लेषं प्राप्नुयादित्यर्थः ॥६॥ तत्तदिति । हृषीकाणामिन्द्रियाणां वासनाः । तथाध्यात्मिकानि जीवात्मन्यध्यस्तानि बुद्धिप्रभृतीनि तथाधिभौतिकानि भाविदेहारम्भकाणि सोमादिपय:प्रभृतीनि सूक्ष्मरूपाणि इत्थं त्रितयमप्याकृष्य हृत्पद्ये एकतां गतः पांसूदकवत्पिण्डितस्वरूप एष प्राणवायुः अध्वगः पान्थः सन् इतरैर्नवभिर्वायुभिः संयुक्तः सन् ऊर्ध्वोच्छ्वासि भवति । तथा तेन प्राणवायुना एकतां गतस्तादात्म्यापन्नो जीवोऽपि उपसर्पतीति वक्ष्यमाणेन संबध्यते । अत्र भाविदेहारम्भकीभूतैः सहोत्क्रमणं श्रुतिराह "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति", "तदन्तरप्रतिपत्तौ रंहतिसंपरिष्वक्तः प्रश्ननिरूपणाभ्याम्” इत्यधिकरणे च निर्णीतं ततएव बोध्यम्-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/122&oldid=162651" इत्यस्माद् प्रतिप्राप्तम्