एतत् पृष्ठम् परिष्कृतम् अस्ति



१२३
बालानन्दिनीव्याख्यासहिता ।

 


वपुर्विहाय जीवत्वमासाद्याकाशमेति सः ।
आकाशाद्वायुष्मागत्य वायोरम्भो ब्रजत्यथ ॥ १७ ॥
अभ्द्यो मेघं समासाद्य ततो वृष्टिर्भवेदसौ ।
ततो धान्यानि भक्ष्याणि जायते कर्मचोदितः ॥ १८ ॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाच देहिनः ।
मुक्तिमन्ये तु संयान्ति यथाकर्म यथाश्रुतम् ॥ १९ ॥


दिकारिणं यदाकदावा मृतमपि धूमादय आतिवाहिकाश्वन्द्रमसं प्रापयन्तीति निष्कर्षः।। 'अतिवाहिकास्तल्लिङ्गात्'।। 'अतश्चायनेऽपि दक्षिणे' इति न्यायात् । यथेतमिति यथागतम् । उपलक्षणं चेदम् । येन क्रमेण चन्द्रलोकगतस्तद्विपरीतक्रमेणेमं लोकमायातीत्यर्थ: । “क्षीणे पुण्ये मर्त्यलोकं विशन्ति" इति स्मृतेः ।। १५ ॥ १६ ॥ वपुर्विहायेति । चन्द्रलोके भोगशरीरं विहाय जीवत्वं लिङ्गशरीरावच्छिन्नत्वं प्राप्य अवरोहति । अवरोहक्रममाह--आकाशमेति स इत्यादिना । आकाशं आकाशत्वमित्यादिभावप्रधानो निर्देशः ॥ १७ ॥ ततः क्रमेणासौ जीवो वृष्टिर्भवेत्तत्राकाशादिसाम्यमभिप्रेतं नतु तदभेदः । "संभाव्यापत्तिरुपपत्तेः” इति न्यायात् । ततो धान्यानि ततो भक्ष्याण्यन्नानीत्यर्थः । सः जायते कर्मणा प्रारब्धेन चोदितः सन् ॥ १८ ॥। इयं च धूमादिमार्गेण गतानां पुनरावृत्तिर्न नियता सर्वेषां किंतु प्राचुर्येणेत्याह्--योनिमिति । मुक्तिमिति । अन्ये तूत्तमाधिकारिणः यथाकर्म चित्तशुद्धिमुद्दिश्याचरितकर्मानुसारेणेत्यर्थः । यथाश्रुतं चन्द्रलोके कृतश्रवणादिसाधनानुसारेणेत्यर्थः । मुक्तिमिति संयान्ति । मुक्तिमिति क्रममुक्तिमित्यर्थः ।। "तदुपर्यपि बादरायणः संभवात्" इत्यधिकरणे स्वर्गलोकादावपि श्रवणादिसाधनेन मोक्षो भवति इति निर्णयात् । तथाच श्रुतिः "तद्यो यो देवानां प्रत्यबुध्यत स तदभवत्तथर्षीणां तथा मनुष्याणाम्' इति ॥ १९ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/125&oldid=162685" इत्यस्माद् प्रतिप्राप्तम्