एतत् पृष्ठम् परिष्कृतम् अस्ति



१२६
[ अध्यायः ११
शिवगीता ।

 

राम उवाच ।


भगवन्यत्त्वया प्रोक्तं फलं तु ज्ञानकर्मणोः ।
ब्रह्मलोके चन्द्रलोके भुङ्क्ते भोगानिति प्रभो ॥ ३१ ॥
गन्धर्वादिषु लोकेषु कथं भोगः समीरितः ॥
देवत्वं प्राप्नुयात्कश्चित्कश्चिदिन्द्रत्वमेव च ॥ ३२ ॥
एतत्कर्मफलं वास्तु विद्याफलमथापि वा ।
तद्ब्रूहि गिरिजाकान्त तत्र मे संशयो महान् ॥ ३३ ॥

श्रीभगवानुवाच ।


तद्विद्याकर्मणोरेवानुसारेण फलM भवेत् ॥
युवा च सुन्दरः शूरोनीरोगो बलवान्भवेत् ॥ ३४ ॥
सप्तद्वीपां वसुमतीं भुङ्क्ते निष्कण्टकं यदि।
स प्रोक्तो मानुषानन्दस्तस्माच्छतगुणो मतः ॥ ३५ ॥
मनुष्यस्तपसा युक्तो गन्धर्वो जायतेऽस्य तु ॥
तस्माच्छतगुणो देवगन्धर्वाणां न संशयः ॥ ३६ ॥}}


नावलोकनीयमित्यन्यत्र विस्तरः ॥ २९ ॥ ३० ॥। उपासनाया इष्टापूर्तादिकर्मणश्च फलं यथाक्रमं ब्रह्मलोकचन्द्रलोकप्राप्तिरूपमुक्तं गन्धर्वसूर्येन्द्रादिलोकप्राप्तिस्तत्किमिदमुपासनाफलं विद्याफलं वेति संदिहानः पृच्छति---भगवन्निति । ज्ञानमुपासा कर्म इष्टापूर्तादि तयोः फलं तूक्तम् ॥ ३१ ॥ ३२ ॥। एतत्कर्मफलं वास्तु अथवा विद्याया उपासनायाः फलम्॥३३॥उत्तरमाह--तदिति । विद्याकर्मणोः पूर्वोक्तयोरेव तारतम्यानुसारेण फलतारतम्यं स्यात् तदेव मानुषाद्यानन्दानां तारतम्यमाह---युवा चेत्यादिना ॥ ३४ ॥ ३५ ॥ मनुष्य इति । तपसा युक्तः सन् गन्धर्वो जायते । अस्य गन्धर्वतां प्राप्तस्यानन्दः पूर्वोक्त। मानुषानन्दाच्छतगुणोऽधिक इति संबन्धः । उत्तगन्धर्बानन्दाद्दे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/128&oldid=163386" इत्यस्माद् प्रतिप्राप्तम्