एतत् पृष्ठम् परिष्कृतम् अस्ति



१३२
[ अध्यायः १२
शिवगीता ।

 

क्रियायोगेन चोपासाविधिः संवर्ग उच्यते ।
संवर्तवायुः प्रलये भूतान्येकोऽवसीदति ॥ १३ ॥
उपसंगम्य बुद्धया यदासनं देवतात्मना ।
तदुपासनमन्तः स्यात्तद्वहिः संपदादयः ॥ १४ ॥
ज्ञानान्तरानन्तरितसजैातिज्ञानसंततेः ।
संपन्नदेवतात्मत्वमुपासनमुदीरितम् ॥ १५ ॥


सोऽसौ उपासाविधिरध्यास इत्युदाहृतः । यथा योषिति अग्निमतिः "योषा वाव गौतमाग्निः" इति श्रुत्युक्तोऽर्थः । यद्यपि प्रागुक्ताङ्गावबद्धोपासनाप्यध्यास एवान्तर्भवति तथापि किंचिद्भेदाद्भे: ॥ १२ ॥ क्रियायोगेनेति। क्रियायोगेन संवृड़ेक्ते भूतानीति संवर्गः । सर्वभूतवशीकरणधुरीण इल्यर्थः । इयं संवर्गोपासा । तत्र दृष्टान्तः । प्रलये संवर्तनामा वायुर्यथा भूतान्यवसीदति अवसादयति स्वाधीनानि करोतीति । तद्वदयं संवर्ग इति भावः ॥ १३ । उपसंगम्येति । बुद्धया गुरूपलब्धेन ज्ञानेन देवतायाः स्वस्य चाभेदरूपेण उप संगम्य देवतासमीपं गत्वा यदासनं अवस्थानं पूजार्थमिति शेषः । तत् अन्तः अन्तरङ्गभूतमुपासनं बोद्धव्यम् । संपदादयस्तु प्रागुक्तास्ततो बहिर्बहिरङ्गभूताः । ब्रह्मज्ञानपक्षे तु बुद्धया श्रवणादिजन्यया देवतात्मनोपसंगम्य ब्रह्माहमस्मीति विषयीकृत्य यदासनं ध्यानं तदन्तरङ्गमुपासनमिति योजनीयम् ।। १४ । कियत्कालमुपासनं विधेयमिस्याकाङ्क्षायां तदवधिमाह-ज्ञानेति । ज्ञानान्तरेण विजातीयज्ञानेन शिवध्यानकाले कामिनीध्यानरूपेणेत्यर्थ: । अनन्तरितानि मध्ये विच्छिन्नानि न भवन्तीत्येवंरूपाणि । अव्यवहितानीति यावत् । यानेि सजातीयज्ञानानि तेषां संततेः । निदिध्यासनस्येत्यर्थः । उपासनं भावप्रधानो निर्देशः । उपासनत्वम् । संपन्नः स्वाभेदेन साक्षात्कृतो देवतात्मा येन तथात्वं उदीरितं कथितम् । साक्षात्कारपर्यन्तं निदिध्या-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/134&oldid=165305" इत्यस्माद् प्रतिप्राप्तम्