एतत् पृष्ठम् परिष्कृतम् अस्ति



१३५
बालानन्दिनीव्याख्यासहिता ।

 

विज्ञानसारथिर्यस्तु मनःप्रग्रह एव च ।
सोऽध्वनः पारमाप्नोति ममैव परमं पदम् ॥ २४ ॥
हृत्पुण्डरीकं विरजं विशुद्धं विशदं तथा।
विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्वरम् ॥ २५ ॥
अचिन्त्यरूपमव्यक्तमनन्तममृतं शिवमू ।
अादिमध्यान्तरहितं प्रशान्तं ब्रह्म कारणम् ॥ २६ ॥
एवं विभु चिदानन्दमरूपमजूमद्भुतम् ।
शुद्धस्फटिकसंकाशमुमादेहार्धधारिणम् ॥ २७ ॥
व्याघ्रचर्माम्बरधूर्ं नीलकण्ट्रं त्रिलूोचनम् ।
जटाधरं चन्द्रमैौलिं नागयज्ञोपवीतिनम् ॥ २८ ॥
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।
पराभ्यामूर्ध्वहस्ताभ्यां बिभ्राणं परशुं मृगम ।
भूतिभूषितसर्वाङ्गं सर्वाभरणभूषितम् ॥ २९ ॥


।। २३ । विज्ञानं सारथिर्यस्य, मनः प्रग्रहो रश्मिर्यस्य, अर्थात् इन्द्रियाणि हया यस्य, शरीरं रथो यस्य, एवंभूतः पुमान् अध्वनः संसारमार्गस्य पारं पारभूतं ममैव पर्द स्वरूपमाप्नोति । २४ ॥ हृत्पुण्डरीकमित्यादयः श्लेोकाः प्रायः स्फुटार्था एव । विरजं रजोगुणकार्यकामादिरहितं अतएव विशुद्धं सत्वगुणकार्यशमादियुक्तं अतएव विशदं निर्मलं विशोकं तमोगुणकार्यरहितम्। एवं हृदयाम्भोजं विचिन्त्य अत्रास्मिन् हृत्पुण्डरीके परमेश्वरं मायालीलावतारं मां ध्यायेत् ॥ २५ । अचिन्त्यरूपं अप्रतर्क्यस्वरूपं अव्यक्तमपरिच्छिन्नं अनन्तं निरतिशयं प्रशान्तं क्षोभरहितं अमृतं नाशरहितं शिवं कल्याणरूपं कारणं विवर्तरूपकार्यस्येति शेषः ।। २६ । एवं उक्तलक्षणं विभुं व्यापकं चिदानन्दं ज्ञानसुखस्वरूपं रूपरहितं अजं उत्पत्तिशून्यं अद्भुतं मायाश्चर्यतादात्म्यापन्नं सत् शुद्धस्फटिकेयादि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/137&oldid=166807" इत्यस्माद् प्रतिप्राप्तम्