एतत् पृष्ठम् परिष्कृतम् अस्ति



१५६
[ अध्यायः १४
शिवगीता ।

 

क्षेत्रज्ञं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि प्रग्रहं तु मनस्तथा ॥ २७ ॥
इन्द्रियाणि हयान्विद्धि विषयास्तेषु गोचराः ।
इन्द्रियैर्मनसा युक्तं भोक्तारं विद्धि पूरुषमू ॥ २८ ॥
एवं शान्त्यादिमुक्तः सत्रुपास्ते यः सदा द्विजः ॥
उध्दाटथोद्धाटयैकमेकं यथेव कदलीतरोः ॥ २९ ॥
वल्कलानि ततः पश्चाल्लभते सारमुत्तममू ।
तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् ॥ ३० ॥


श्वरब्रह्मणामैक्यमेव । भेदविधायिन्या अविद्याया मिथ्यात्वात् । तदुतम् "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । तदा जीवेशयोर्भेदमसन्तं कः करिष्यति ॥' इति । "तत्र को मोहः कः शोक एकत्वमनुपश्यत:” इत्यादिश्रुतेरिति दिक् । २६ || कठवल्लीमर्थत: संगृह्वाति-क्षेत्रज्ञमिति । प्रग्रहं रशनारूपं मनो बुद्धिं च सारथिम् ॥ २७ ॥ तेष्वश्वेषु संक्रमितुं प्रवृत्तेषु विषयाः शब्दादयः गोचराः संचरणप्रदेशा भवन्तीति विद्धि । तथाच पूर्वोक्तैरिन्द्रियैर्मनसा युक्तं पुरुषमात्मानं भोक्तारं विद्धि अन्यथाऽभोक्तारं विद्धीति भावः । तथाच न्यायः ‘यथा च तक्षोभयथा” इति ॥ २८ । अतएवाकत्रीत्मस्वरूपलाभाय पञ्चकोशनिरासपूर्वकमात्मोपासनं दृष्टान्तेनोपपादयति-एवमिति । उद्धाटयेति । यथा कदलीतरोरेकैकं यथा तथा वल्कलानि उद्धाट्योद्धाट्य ततः पश्चात्सारं लभते । तथाच पञ्चसु कोशेष्वेकमेकं निराकृल्यापरस्मिन्नपरस्मिन् क्रमान्मनः संक्रमयन् तेषां मध्ये सारभूतमात्मानं विन्दति प्राप्नोति । अपिशब्दात् "यो वेद् निहितं गुहायां" इति श्रुतिर्दर्शिता भवतीति भावः । नन्वानन्दमयस्य कथं कोशत्वं कोशस्याविद्याकार्यत्वात् आनन्दमयस्तु ब्रहोति चेन्न ! आनन्दुमयस्य ‘ब्रह्मपुच्छं प्रतिष्ठा' इति वाक्यार्थभूतसर्वाधार

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/158&oldid=175567" इत्यस्माद् प्रतिप्राप्तम्