किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम्।
जडः किं नु विजानाति देहोऽयं पाञ्चभौतिकः ॥ ५ ॥
निर्लेपः परिपूर्णश्च सच्चिदानन्दविग्रहः ।
आत्मा न जायते नैव म्रियते न च दुःखभाक् ॥ ६ ॥
सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः ।
तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते ॥ ७ ॥
योगजधर्मप्रत्यासत्त्या रामवृत्तान्तं ज्ञात्वा स्वयमेवागत्य लोकानुसारेण विलपन्तं रामं प्रत्यगस्त्य उवाच । हे राम, त्वं किं विषीदसि किंनिमित्तं शोचसि । ननु कान्तार्थं विषीदामीति चेत्तत्राह--कान्तेति । कस्य कान्तेति त्वया विचार्यताम् । भार्याविरहजं दु:खं किं देहस्याहोस्विदात्मन इति विकल्प्य प्रथमं पक्षं दूषयति--जडः किंन्विति । अयं पाञ्चभौतिकः पञ्चभूतकार्यं देहः । अतएव जडः किंनु विजानातीत्याक्षेपः । न जानातीत्यर्थः । प्रयोगश्च-देहो न ज्ञानाश्रयः भूतत्वाद्धटवत्, यदि ज्ञानाश्रयः स्यात्तर्ह्यभूतोऽपि स्यादिति पक्षे विबाधकतर्कसत्त्वात् ॥ ५ ॥ ननु तर्हि आत्मन एव दु:खादिकमित्याशङ्कायामाह-निर्लेप इति । आत्मा न जायते नापि म्रियते नापि दुःखभाक् । तत्र दुःखाभावे हेतुः-निर्लेप इति । अतएव सच्चिदानन्दविग्रहः । जन्माभावे नाशाभावे च हेतुः-परिपूर्ण इति । "असङ्गो ह्ययं पुरुषः” "अविनाशी वा अरेऽयमात्मा” इत्यादिश्रुतेः ॥ ६ ॥ निर्लेपतां दृष्टान्तेनोपपादयति सार्धेन । ननु देहयोगेनात्मनोऽपि दुःखादि प्रसज्येतेत्याशङ्क्याह-सूर्य इति । अत्र तथाशब्दाद्यथेत्याक्षिप्यते । यथा यद्यापीत्यर्थः । सूर्यः सर्वलोकस्य चक्षुष्ट्वेन चक्षुरधिष्ठातृत्वेन । तथाच श्रुतिः--"आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्” इति । व्यवस्थितः तथापि चाक्षुषैश्चक्षुर्जन्यैर्दोषैर्न लिप्यते ॥७॥