एतत् पृष्ठम् परिष्कृतम् अस्ति



१५९
बालानन्दिनीव्याख्यासहिता ।

 

यत्करोषि यदक्ष्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् ॥
ततः परतरं नास्ति भक्तिर्मयि रघूत्तम ॥ ४४ ॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु श्रीशिवराघवसंवादे
चतुर्दशोऽध्यायः ॥'१४ ॥



पञ्चदशोऽध्यायः १५

श्रीराम उवाच ।

भक्तिस्ते कोइशी देव जायते वा कर्थ च सा ।
यथा निर्वाणरूपं तु लभते मोक्षमुत्तमम्


श्रीभगवानुवाच ।


यो वेदाध्ययनं यज्ञं दानानि विविधानि च ॥
मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥ २ ॥


त्रिधा । भगवच्छरणत्वं स्यात्साधनाभ्यासपाकतः ॥" इति । एवं मां शरणमागतं त्वणुं सर्वपापेभ्यः शरीरत्रयाध्यासतत्कार्यजननमरणनानागतिरूपेभ्यो मोक्षयिष्यामेि । मा शुचः कथं मुक्तो भविष्यामीति वृथा शोकं मा कृथा इत्यर्थः ॥४३॥ सर्वं कर्म मदर्पणं कुर्वित्याह-यत्करोषीत्यादि । ततः मदर्पणादन्यत्साधनं परतरं श्रेष्टं नास्ति । मयि सर्वकर्मसमर्पणमेव भक्तिशब्दार्थः । हे रघूत्तम ॥४४॥ इति श्रीलक्ष्मीनरहरिसूनुहरिदीक्षितकृतौ शिवगीताटीकायां बालानन्दिन्यां चतुर्दशोऽध्यायः ।। १४ ॥ "  भक्तेरेवान्तरभेदान्प्रपञ्चयितुं पञ्चदशोऽध्याय अारभ्यते । तत्रादित: सार्धश्लोकाप्टकं स्पष्टार्थम् । कीदृशी किंविधा । निर्वाणरूपं


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/161&oldid=175602" इत्यस्माद् प्रतिप्राप्तम्