पुटमेतत् सुपुष्टितम्



१४
[ अध्यायः २
शिवगीता ।

 

सर्वभूतान्तरात्मापि तद्वद्दु:खैर्न लिप्यते ।
देहोऽपि मलपिण्डोऽयमुक्तजीवो जडात्मकः ॥ ८ ॥
दह्यते वह्निना काष्ठैः शवाद्यैर्भक्ष्यतेऽपि वा ॥
तथापि नैव जानाति विरहे तस्य का व्यथा ॥ ९ ॥
सुवर्णगौरी दूर्वाया दर्लंवच्छ्यामलापि वा ।
पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मावलग्नका ॥ १० ॥
बृहन्नितम्बजघना रक्तपादसरोरुहा ।
राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा ॥ ११ ॥


तद्वदु:खैर्न लिप्यते न संबध्यते। अस्मिन्नर्थे ‘सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषै” रिति। एवमात्मनो निर्लेपत्वमनाद्यनन्तत्वं परिपूर्णत्वं प्रतिपाद्य वैराग्यार्थं पुनर्देहस्य जडत्वं विवृणोति---देहोऽपीति सार्धेन । अयं प्रत्यक्षो देहोऽपि । अपिशब्देन समीचीनतया भासमानोऽपि मलपिण्डः अमेध्यस्वरूपः । जीवो नाम जीवोपाधिर्लिङ्गदेहः । तथाच मुक्तो जीवो येन स तथा लिङ्गदेहविरहितः सन् । मृतः सन्नित्यर्थः ॥ ८ ॥ वह्निना कर्त्रा काष्ठैः करणभूतैर्दह्यते शिवा सृगालस्तदाद्यैर्भक्ष्यते । तथापि दग्धोऽपि शिवाद्यैर्भक्षितोऽपि नैव जानाति सुखदु:खादिकमिति शेषः । एवंभूतस्य जडस्य वियोगे का व्यथा ॥ ९ ॥। विरहे तस्य का व्यथेत्युक्तं तत्र तच्छब्दवाच्यस्य देहस्य दुर्निरूपत्वं प्रतिजानीते । सुवर्णगौरीत्यादिभिः सार्धैश्चतुर्भिः श्लोकैः-सुवर्णेति । आभोगो विस्तारः । तेन भुग्नं नम्रं सूक्ष्मं कृशमवलग्नं मध्यं यस्याः सा तथा ॥ १० ॥ बृहदिति ।। 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः” इत्यमरः । बृहती नितम्बजघने यस्यास्तथोक्ता । रक्ते लोहिते पादावेव सरोरुहे यस्याः सा राका पूर्णिमा बिम्बं बिम्बफलं तस्य प्रतिबिम्बः सदृशः रदच्छद ओष्ठो-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/17&oldid=293711" इत्यस्माद् प्रतिप्राप्तम्