एतत् पृष्ठम् परिष्कृतम् अस्ति



१६८
[ अध्यायः १६
शिवगीता ।

 

ऋषय ऊचु:।
अद्यप्रभृति नः सूत त्वमाचार्यः पिता गुरुः ।
अविद्यायाः परं पारं यस्मात्तारयितासि नः ॥ ६७ ॥
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
तस्मात्सूतात्मज त्वत्तः सत्यं नान्योऽस्ति नो गुरुः॥६८॥
व्यास उवाच ।
इत्युक्त्वा प्रययुः सर्वे सायंसंध्यामुपासितुम् ।
स्तुवन्तः सूतपुत्रं ते संतुष्टा गोमतीतटम् ॥ ६९ ॥
इति श्रीपद्मपुराणे उत्तरखण्डे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशात्रे
शिवराघवसंवादे षोडशोऽध्यायः ॥ १६ ॥


॥ ६४ ॥ ६५ ॥ ६६ । अाद्येति ।। "त्वं हि नः पिता योऽस्माकमविद्यायाः पारं पारयसि" इति श्रुतेर्ब्रह्मप्रद एव पितेति युक्तम् । ६७ । ६८ । कालान्तरे पठितुमागतान् शिष्यान्प्रति व्यासस्यायमुपदेश इत्यनुमेयमिति सर्वं रमणीयम् ॥ ६९ ॥ योऽभूज्जीवानुद्दिधीर्षुर्दयालुः م' शिष्यो रामो देशिकः श्रीमहेशः । गीतां तत्त्वज्ञानशास्त्रंं जगौ य स्तं वन्देऽहं दिव्यलक्ष्मीनृसिंहम् ॥ १ ॥ काहं मन्दमतिः केदं गीताशास्त्रं महत्तरम् । तव्धाख्याने प्रवृत्तस्य क्षमध्वं मम चापलम् ॥ २ ॥ इतेि श्रीलक्ष्मीनरहरिसूनुविरचितायां शिवगीताटीकायां बालानन्दिन्यां मोक्षयोगोनाम षोडशोऽध्यायः ।। १६ ॥ श्रीसांबसदाशिवार्पणमस्तु ॥ गीताशास्त्रस्यादितः श्लोकसंख्या ७७० ॥


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/176&oldid=176195" इत्यस्माद् प्रतिप्राप्तम्