सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥
तस्यैवांशो जीवलोके हृदये प्राणिनां स्थितः ॥ २७ ॥
चैतन्यं जीवः । स चौपाधिककर्तृत्वभोक्त्तृत्वप्रमातृत्वादिधर्मवान् । अतो नानुभवविरोधः नवा शास्त्रानर्थक्यं च । यत्तु आत्मा न मोक्त्तेति प्रागुक्तं तत्तु ईश्वरो न भोक्तेत्याशयेन । प्रतिबिम्बस्यापि भोक्तृत्वादिकं संनियोगशिष्टम् । अहंकारस्यापगमे कर्तृत्वादेरप्यपगमात्। तदुक्तम् “आत्मा कर्त्रादिरूपश्चेन्माकाङ्क्षीस्तर्हि मुक्तताम् । नहि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवेः ॥” इति अहंकारतादात्म्येनाहं सुखी दुःखी चेत्याद्यविवेकेन सर्वजगत्क्लिश्यतीति भावः ॥ २६ ॥ श्रुत्युक्तमहेश्वरपदस्यार्थमाह-सत्येति । सत्यं कालत्रयाबाध्यं ज्ञानं नाम प्रकाश आत्मस्वरूपं यस्य स तथा अनन्तस्त्रिविधपरिच्छेदशून्यः॥ अतएव विभुर्व्यापकः । अतएवात्मा सर्वत्रानुभूत एवंविधो महेश्वर इत्युच्यते । मायावच्छिन्नत्वेऽपि महेश्वरत्वादनावृतज्ञान इत्यर्थः । श्रुत्युक्तोत्तरार्धस्यार्थमाह--तस्येति । लोक्यत इति लोकः जीवानां लोकः स तथा तस्मिन् जीवलोके प्राणिनां हृदये स्थितः । तस्यैव महेश्वरस्यांशः । प्रतिबिम्ब इत्यर्थः । जीव इत्युच्यते । "यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा ।" "एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्"। “रूपंरूपं प्रतिरूपो बभूव"। “जीवेशावाभासेन करोति माया विद्या च स्वयमेव भवति" इत्याद्याः श्रुतयः ।। "ममैवांशो जीवलोके जीवभूतः सनातनः” इत्याद्याः स्मृतयश्च प्रमाणम् ॥ ननु "तस्यावयवभूतेन व्याप्तं सर्वमिदं जगत्" इत्युक्तत्वाज्जीवस्य व्यापकत्वं प्राप्तं तर्हि घटाद्यवच्छेदेनापि सुखादिभोगः स्यादित्याशङ्क्याह-हृदये स्थित इति । हृदयावच्छेदेनैव तस्य भोगः ।। २७ ॥