पुटमेतत् सुपुष्टितम्



२२
[ अध्यायः २
शिवगीता ।

 

कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च ।
मोहश्चेत्यरिषड्वर्गमहंकारगतं विदुः ॥ ३६ ॥
स एव बध्यते जीवः स्वप्नजाग्रदवस्थयोः ।
सुषुप्तौ तदभावाच्च जीवः शंकरतां गतः ॥ ३७ ॥
स एव मायया स्पृष्टः कारणं सुखदुःखयोः ।
शुक्तौ रजतवद्विश्वं मायया दृश्यते शिवे ॥ ३८ ॥


स्यात् । शरीरस्य भोगायतनत्वात् । कारणे सति कार्यस्यावश्यकत्वादित्यत आह-सुख्यहमिति । यद्यपि जीवो निर्लेपः सुखदु:खादिसङ्गरहितः परंज्योतिः स्वप्रकाशस्तथापि शंभुमायया मोहितः सन् सुख्यहं दु:ख्यहमिति स एवाभिमन्यते । अहंकारसमसत्ताकं सुखादिकमहंकारावच्छिन्नस्य प्रतिबिम्बस्यैव नेश्वरस्य । तथाच श्रुतिः "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्यादि। नहि यस्य माया तमेव वशीकरोतीति लोके ऐन्द्रजालिकादौ दृष्टमिति भावः ॥ ३५ ॥ कामक्रोधादयस्त्वहंकारनिबन्धना इत्याह-- कामेति । कामोऽभिलाषः, क्रोधो द्वेषः, लोभः प्राप्तेऽपि नालंबुद्धिः, मदः स्तम्भः, मात्सर्यं परगुणासहनम् । मोहश्चाविवेकः । इममरिषड्वर्गमहंकारनिष्ठं विदुः ।। "कामः संकल्पः” इति श्रुत्यान्तःकरणस्यैते वृतिविशेषास्तथापि अहंकारस्य प्राधान्येनोक्त्तमहंकारगतमिति ॥३६॥ स इति । स एव जीवः स्वप्नजाग्रदवस्थयोरहंकारावच्छिन्न एव बध्यते । सुषुप्तौ तदभावादहंकाराभावात् । सूक्ष्मरूपेणावस्थानादित्यर्थः । अन्यथाहंकारनाशे जीवो ब्रह्मैव स्यात् । शंकरतां बिम्बसाम्यं गतः प्राप्तो भवतीत्यर्थः । "सता सौम्य तदा संपन्नो भवति" इत्यादिश्रुतेः ॥३७॥ ननु जीवस्याहंकाराद्युपादानतया ब्रह्मणश्च वियदाद्युपादानतया तयोः सविकारतापत्तिरित्याशङ्क्य परिणामित्वे ह्येवं स्यात्। इह तु विवर्ताधिष्ठाने नायं दोष इत्याह-स एवेति । जीवो मायया परिणामिन्यास्पृष्टः । कोऽर्थः। मायापरिणामोऽन्तःकरणं तेन विशिष्टः सन् सुख-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/25&oldid=294211" इत्यस्माद् प्रतिप्राप्तम्