इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीशवरोद्धतः ॥
तस्याग्रे सङ्गरे देवा बहुवारं पलायिताः ॥ ५ ॥
कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ।
अन्यो दिव्यास्त्रसंयुक्तश्चिरंजीवी विभीषणः ॥ ६ ॥
दुर्गं यस्यास्ति लङ्काख्यं दुर्जयं देवदानवैः ।
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७ ॥
एकाकिना त्वया जेयः स कथं नृपनन्दन ।
आकाङ्क्षते करे धर्तुं बालश्चन्द्रमसं यथा ॥ ८ ॥
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ९ ॥
श्रीराम उवाच ।
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥१०॥
इत्यर्थः ॥ ४ ॥ इन्द्रजिदिति । ईशवरेणोद्धतो गर्वितः । पलायिताः पलायनं कृतवन्त इत्यर्थ: ॥ ५ ॥ कुम्भकर्णेति। सुरसूदनो देवानां क्षोभकः । अन्यः कुम्भकर्णादपरो विभीषणः। चिरंजीवीति भाविवरदानेनोक्तम् ॥ ६ ॥ दुर्गमिति। दुर्गं जले विषमस्थानम्। दुर्जयं जेतुमशक्यम्। चत्वारि अङ्गानि हस्त्यश्वरथपदातिरूपाणि यस्य तत्तथा बलं सैन्यं कोटिसंख्यया उपलक्षितं सद्वर्तते । कोट्य इत्येव गणनीयं नतु कोटिमात्रेण परिच्छेद्यमित्यर्थः ॥७॥ एकाकिनेति । असहायेन स प्रतिपक्षो रावणः ससहायः कथं केन प्रकारेण जेयः त्वदुद्योगस्त्वकिंचित्कर इत्याह-आकाङ्क्षत इति । यथा बालश्चन्द्रमसं करे धर्तुमाकाङ्कते तथा त्वं काममोहेन । कामप्रयुक्ताविवेकेनेत्यर्थः ॥८॥ तस्य रावणस्य ॥९॥ नाहं ज्ञानाधिकारी वैराग्याभावादिति लोकरीतिं विडम्बयन् श्रीराम उवाच । अन्येनान्यस्य बलाद्धार्यापहृता चेत्तं दस्युं हत्वा तस्य भार्या विमोक्षणीया किमुत स्वस्य । यतः क्षत्रियोऽहं क्षतात्रायत इति क्षत्रियः । यदि तं रावणमाशु शीघ्रं