देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि वा ।
स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥ १६ ॥
अतस्त्वां दीक्षयिष्यामि विरजागममाश्रितः ।
तेन मार्गेण मर्त्यत्वं हित्वा तेजोमयो भव ॥ १७ ॥
येन हत्वा रणे शत्रून्सर्वान्कामानवाप्स्यति ।
भुक्त्वा भूमण्डलं चान्ते शिवसायुज्यमाप्स्यसि ॥ १८ ॥
सूत उवाच ।
अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ।
उवाच दुःखनिर्मुक्तः प्रहृष्टेनान्तरात्मना ॥ १९ ॥
श्रीराम उवाच ।
कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ॥
पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ।
अतस्त्वं विरजादीक्षां ब्रूहि मे मुनिसत्तम ॥ २० ॥
मनुसरन्नगस्त्य उवाच-एवमिति । एवं चेच्छत्रुवध एवावश्यं कर्तव्यश्चेत्तर्हि अव्ययमविनाशं पार्वतीपतिं शरणं याहि । स प्रसन्नश्चेत्तर्हि ॥१५॥ त्वयैव प्रसादः क्रियतामिति चेत्तत्राह-देवैरिति । ते त्वया वध्यः हन्तुं शक्यः कथं केन प्रकारेण ॥१६॥ अतः इति । विरजागमं विरजादीक्षाप्रतिपादकं शास्त्रमाश्रितः सन् दीक्षयिष्यामि । दीक्षावन्तं करिष्यामीत्यर्थः । तेन मार्गेणोपायेन मर्त्यत्वमितरसाधारण्यं हित्वा । तेजोमयः शुद्धदेहो भव । आशिषि लोट् ॥ १७ ॥ येनेति । येन दीक्षासंस्कारेण शत्रून्हत्वा सर्वान्कामानवाप्स्यसि । किंच भूमण्डलं भुक्त्वाऽनुभूयान्ते शिवसायुज्यमपरमुक्त्तिं प्राप्स्यसि । उपासनाभिर्मुक्तयस्तु सारूप्यादय एव भवन्ति ज्ञानेन कैवल्यरूपा मुक्त्तिरिति भावः ॥ १८ ॥ सूत उवाच-अथेति । अगस्त्यवाक्यश्रवणानन्तरम् ॥ १९ ॥ कृतार्थ इति । आगतः सिद्धः । तस्य मा-