आत्मन्यग्निं समारोप्य याते अग्नेति मन्त्रतः ॥
भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत् ॥ २९ ॥
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥
पाषैर्विमुच्यते नित्यं मुच्यते न च संशयः ॥ ३० ॥
अग्निवीर्यं यतो भस्म वीर्यवान्भस्मसंयुतः ॥
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥ ३१ ॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्।
एवं कुरु महाराज शिवनामसहस्रकम् ॥ ३२ ॥
इदं तु संप्रदास्यामि तेन सर्वमवाप्स्यसि ॥ ३३ ॥
तस्तदनन्तरं एकाग्रः स्वस्थः सन् समिदाज्यचरूनिति द्रव्यत्रयं पृथक्पृथगनुवाकान्तं अनुवाकसमाप्तिपर्यन्तं जुहुयात्। ‘प्राणापानव्यानोदानसमाना मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँस्स्वाहा" ' इत्यादयो विरजामन्त्रा अनुसंधेयाः ॥ २८ ॥ आत्मनीति । ‘या ते अग्ने यज्ञिया तनूः” इत्यादिमन्त्रेणाग्निमात्मनि समारोप्य । ततो हुतस्याग्नेर्भस्मादाय गृहीत्वा "अग्निरिति भस्म” इत्यादिमन्त्रैर्विमृज्य अभिमन्त्र्य तेन भस्मनाङ्गानि ललाटादीनि संस्पृशेत् । तेषु भस्मधारयेदित्यर्थः । अग्न इति वक्तव्ये अग्नेतीति संधिरार्षः । "अग्निरित्यादिभिर्मन्त्रैः शुद्धं भस्माभिमन्त्रितम् । शिवमन्त्रेण वा धार्यं गायत्र्या प्रणवेन वा ” एतञ्च भस्मधारणं सर्वकर्माङ्गम् ।। "न तद्ध्यानं न तद्दानं न तज्ज्ञानं जपो न सः । त्रिपुण्ड्रेण विना येन विप्रेण यदनुष्ठितम्” इति । विस्तरस्त्वाकरे द्रष्टव्यः ॥ २९ ॥ भस्मेति । छन्नो लिप्ताङ्ग आदौ पापैर्विमुच्यते ततो ज्ञानेन संसारादपि मुच्यते । न संशय इति महापापेभ्यः कथं प्रमुच्यत इति संशयो न कार्यः । भस्मसामर्थ्यं वाचामगोचरमिति भावः ॥ ३० ॥ ३१ ॥ एवं कुर्विति । एवं प्रागुक्तरीत्या भस्मधारणं कुर्वित्यर्थः ॥ ३२ ॥ इदमिति । इदं बु-