सूत उवाच ।
इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकम् ॥
वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम् ॥ ३४ ॥
उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ।
ततः प्रसन्नो भगवान्महापाशुपतास्त्रकम् ।
तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाप्स्यसि प्रियाम् ॥ ३५॥
तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ।
संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥ ३६ ॥
तदलाभे दानवानां जयस्तव सुदुर्लभः ॥
तस्माल्लब्धुं तदेवास्त्रं शरणं याहि शंकरम् ॥ ३७ ॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
अगस्तिराघवसंवादे विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥
द्धिस्थं सर्वं सर्वार्थप्रयोजनम् ॥ ३३ ॥ सूत उवाच-इत्युक्त्वेति । वेदसार इत्याख्या नामास्येति ॥ ३४ ॥ उक्तं चेति । तेनागस्त्येन उक्तं च। किमुक्तं तदेवाह। हे राम, दिवानिशं इदं जप। तदपि न कस्मिंश्चिदहोरात्रे किंतु सर्वेष्वित्याह नित्यमिति । ततः सहस्रनामजपात्पाशुपतसंज्ञकमस्त्रं तेनास्त्रेण रावणादीन्हत्वा प्रियां भार्यामवाप्स्यसि ॥३५॥ तस्यैवेति । संहारेति । संहारे तदेवास्त्रं प्रायेणार्हमित्यर्थः ॥३६॥ तदलाभ इति । कर्तुः शेषत्वविवक्षायां तवेति षष्ठी तेन 'न लोक-' इति न निषेधः । उपसंहरति-तस्मादिति ॥३७॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां तृतीयोऽध्यायः ॥ ३ ॥