चतुर्थोऽध्यायः ४
श्रीसूत उवाच ।
एवमुक्त्वा मुनिश्रेष्ठे गते तस्मिन्निजाश्रमम् ।
अथ रामगिरौ रामः पुण्ये गोदावरीतटे ॥ १ ॥
शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि ।
भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः ॥ २ ॥
अभिषिच्य जलैः पुण्यैर्गौतमीसिन्धुसंभवैः ॥
अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि ॥ ३ ॥
भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः ।
नाम्नां सहस्रं प्रजपन्नक्तंदिवमनन्यधीः ॥ ४ ॥
मासमेकं फलाहारो मासं पर्णाशनः स्थितः ।
मासमेकं जलाहारो मासं च पवनाशनः ॥ ५ ॥
शान्तो दान्तः प्रसन्नात्मा ध्यायन्नेवं महेश्वरम् ।
हृत्पङ्कजे समासीनमुमादेहार्धधारिणम् ॥ ६ ॥
ततः किं वृत्तमिति शुश्रूषून्मुनीन्प्रति सूत उवाच-एवमिति । तस्मिन्नगस्त्ये । अथानन्तरम् ॥ १ ॥ शिवलिङ्गमिति । यथाविधि पूर्वाध्यायोक्तविधिमनतिक्रम्य दीक्षां कृत्वा स्थित इति पञ्चमश्लोकस्थेन सहान्वयः । कीदृशः स इत्याकाङ्क्षायां विशेषणानि भूतिभूषितेत्यादीनि ॥ २ ॥ अभिषिच्येति । स्वयं प्रतिष्ठापितं लिङ्गं गौतमीगोदावरी सा सिन्धुर्नदी तत्प्रभवैर्जलैरभिषिच्य । वन्यानि वने जातानि तैः । स्पष्टमन्यत् ॥३॥ भस्मच्छन्न इति । भस्मना छन्नो दिग्धः । नक्तंदिवमहोरात्रम् ।। 'अचतुर-' इति निपातनात्साधुः । अनन्यधीः न विद्यतेऽन्यस्मिन्धीर्यस्य स तथा शिवैकनिष्ठ इत्यर्थः ॥४॥ ॥५॥ शान्त इति । शान्तो मनोनिग्रहवान् । दान्तो बहिरिन्द्रियनि-