रुद्रबाणाग्निसंदीप्तभृशत्रिपुरविभ्रमः ।
तमाकर्ण्याथ संभ्रान्तो यावत्पश्यति पुष्करम्।
तावदेव महातेजो रामस्यासीत्पुरो द्विजाः ॥ १२ ॥
तेजसा तेन संभ्रान्तो नापश्यत्स दिशो दश।
अन्धीकृतेक्षणस्तूर्णं मोहं यातो नृपात्मजः ॥ १३ ॥
विचिन्त्य तर्कयामास दैत्यमायां द्विजेश्वराः ॥
अथोत्थाय महावीरः सज्यं कृत्वा धनुः स्वकम् ॥ १४ ॥
अविध्यन्निशितैर्बाणैर्दिव्यास्त्रैरभिमन्त्रितैः ॥
आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ॥ १५ ॥
विष्णुचक्रं महाचक्रं कालचक्रं च वैष्णवम् ॥
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशानिलम् ॥ १६ ॥
भार्गवादिबहून्यस्त्राण्ययं प्रायुङ्क्त राघवः ॥ १७ ॥
रुद्रेति । रुद्रस्य बाणाग्निना संदीप्तं भृशं संदीप्तबहुलं त्रिपुरं तस्य यो विभ्रमः महासंरम्भः तं करोतीति तथाभूतो नादो जात इति पूर्वेणान्वयः ।। 'तत्करोति’ इति ण्यन्तात्पचाद्यच् । तमिति । अथ महानादोत्पत्त्यनन्तरं तं नादमाकर्ण्य श्रुत्वा संभ्रान्तो जातः "समौ संवेगसंभ्रमौ" इत्यमरः । भयादिना कर्मस्वपाटवं संवेग इति क्षीरस्वामी । यावत्पुष्करं गोदावरीजलं तत्रैव प्रक्रान्तत्वात् ।। "पुष्करं सर्वतोमुखम्" इत्यमरः । तज्जलं लक्षीकरोति तावत् ॥ २१ ॥ तेजसेति । संभ्रान्तो व्याकुलः। अन्धीकृते ईक्षणे नेत्रे यस्य स तथा । एवंभूतः सन् तूर्णं शीघ्रं मोहं यातः प्राप्तः ॥ १३ ॥ विचिन्त्येति । हे द्विजेश्वराः, रामो विचिन्त्य मनसि विचार्य । एषा दैत्यमायेत्यूहितवान् । अथ महावीरो रामः स्वकमात्मीयं धनुः सज्यं सगुणं कृत्वा ॥१४॥ अविध्यदिति । दिव्यास्त्राणि । तान्येवाह-आग्नेयमिति । तत्तद्देवताकान्यस्त्राणीत्यर्थः ॥१५॥ प्रायुङ्क्त प्रयुक्तवानित्यर्थः ॥१६॥१७॥