पुटमेतत् सुपुष्टितम्



३६
[ अध्यायः ४
शिवगीता ।

 
तस्मिंस्तेजसि शस्त्राणि चास्त्राण्यस्य महीपतेः ।
विलीनानि महाभ्रस्य करका इव नीरधौ ॥ १८ ॥
ततः क्षणेन जज्वाल धनुस्तस्य कराच्च्युतम् ।
तूणीरं चाङ्गुलित्राणं गोधिकापि महीपतेः ॥ १९ ॥
तद्दृष्ट्वा लक्ष्मणो भीतः पपात भुवि मूर्च्छितः ।
अथाकिंचित्करो रामो जानुभ्यामवनिं गतः ॥ २० ॥
मीलिताक्षो भयाविष्टः शंकरं शरणं गतः ।
स्वरेणाप्युच्चरन्नुच्चैः शंभोर्नामसहस्रकम् ॥ २१ ॥
शिवं च दण्डवद्भूमौ प्रणनाम पुनः पुनः ।
पुनश्च पूर्ववञ्चासीच्छब्दो दिङ्मण्डलं स्वनन् ।
चचाल वसुधा घोरं पर्वताश्व चकम्पिरे ॥ २२ ॥
अथ क्षणेन शीतांशुशीतलं तेज आदधत् ॥
उन्मीलिताक्षो रामस्तु यावद्यावत्प्रपश्यति ॥ २३ ॥


तस्मिन्निति । महाभ्रस्य महामेघस्य संबधिन्यः करका वर्षोपला नीरधाविवेति दृष्टान्तः ॥ १८ ॥ तत इति । तस्य रामस्य कराञ्च्युतं सज्जज्वाल । तथा तूणीरं निषङ्गः । अङ्गुलित्राणं च गोधिकापि ज्याघातवारणार्थं कृतं चर्ममयं तलं च जज्वालेत्यनुषज्यते ॥ १९ ॥ तदिति । तत्तेजसा धनुरादिज्वलनम्। अथानन्तरं न किंचित्करोतीत्यकिंचित्करः सन् ॥ २० ॥ मीलिताक्ष इति । शरणं रक्षितारं गतः प्राप्तः । किं कुर्वन्। उच्चैःखरेणापि शंभोर्नामसहस्रकं उच्चरन्नुच्चारयन्नित्यर्थः ॥ २१ ॥ शिवं चेति । पुनश्चेति । दिशां मण्डलं स्वनन्स्वानयन्नित्यर्थः । अन्तर्भावितण्यर्थाच्छतृप्रत्ययः । घोरं भयंकरं यथा तथा ॥ २२ ॥ अथेति । राम उन्मीलिताक्षः सन् शीतांशुश्चन्द्रस्तद्वच्छीतलं तेज आदयदासमन्ताद्बिभ्रत्। तथापि यावत्स्वचक्षुर्ग्राह्मपरिमाणकं यथा स्यात्तथा । सर्वस्य ग्रहीतुमशक्यत्वात् । यावत्प्र-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/39&oldid=294918" इत्यस्माद् प्रतिप्राप्तम्