पुटमेतत् सुपुष्टितम्


॥ ॐ ॥

शिवगीता ।

बालानन्दिनीव्याख्यासंवलिता ।

प्रथमोऽध्यायः
ॐनमः शिवाय
सूत उवाच ।

अथातः संप्रवक्ष्यामि शुद्धकैवल्यमुक्तिदम् ॥
अनुग्रहान्महेशस्य भवदुःखस्य भेषजम् ॥ १ ॥


लक्ष्मीनृसिंहचरणद्वयमादरेण
नत्वा चतुर्विधपुमर्थनिदानभूतम् ।
भट्टोजिदीक्षितकृतिं कृतिभिर्विभाव्या-
मालोक्य बालमतये वितनोमि टीकाम् ॥ १ ॥

 अथेति । नित्यानित्यवस्तुविवेक इहामुत्रार्थफलभोगविरागः शमादिष्टं, मुमुक्षुत्वं चेति साधनसंपन्ना एते मां पृच्छन्तीति निर्णयानन्तरं, यत एतेऽल्पश्रवणमात्रेण कृतार्था भविष्यन्त्येव तथापि गुरुमुखादेतच्छास्त्रस्याध्येतारोऽन्येऽपि मुक्ता भविष्यन्ति । अतः कारणादिदं वक्ष्यमाण-गीताशास्त्रार्थ युष्मान्प्रति वक्ष्यामि । एतच्छास्त्रस्य वक्तृत्व-श्रोतृत्वे महेश्वरानुग्रह एव कारणमित्याह-अनुग्रहादिति । तदुक्तम्—“ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महाभयकृतत्राणपराणामेव जायते ।' इति । कीदृशं गीताशास्त्रमित्यत आह-- भवेति । भवः संसारः स एव दुःखं रोगस्तस्य भेषजं निवृत्तिसाधनमौषधम् । न केवलमेतावदेव। किंतु शुद्धकैवल्यमुक्तिदम्। केवलस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/4&oldid=293407" इत्यस्माद् प्रतिप्राप्तम्