तावद्ददर्श वृषभं सर्वालंकारसंयुतम् ॥
पीयूषमथनोद्भूतनवनीतस्य पिण्डवत् ॥ २४ ॥
प्रोतस्वर्णं मरकतच्छायाश्रृङ्गद्वयाञ्चितम् ॥
नीलरत्नेक्षणं ह्रस्वकण्ठकम्बलभूषितम् ॥ २५ ॥
रत्नपल्याणसंयुक्तं निबद्धश्वेतश्चामरैः ।
घण्टिकाघर्घरीशब्दैः पूरयन्तं दिशो दश ॥ २६ ॥
तत्रासीनं महादेवं शुद्धस्फटिकविग्रहम् ।
कोटिसूर्यप्रतीकाशं कोटिशीतांशुशीतलम् ॥ २७ ॥
व्याघ्रचर्माम्बरधरं नागयज्ञोपवीतिनम् ॥
सर्वालंकारसंयुक्तं विद्युत्पिङ्गजटाधरम् ॥ २८ ॥
नीलकण्ठं व्याघ्रचर्मोत्तरीयं चन्द्रशेखरम् ।
नानाविधायुधोद्भासिदशबाहुं त्रिलोचनम् ॥ २९ ॥
पश्यति । यद्वा । पूर्वोक्तं तेज आदधत् अपिबत् । सादरमद्राक्षीदित्यर्थः । धेट् पाने “विभाषा धेट्श्व्योः' इति चङ्। पुनश्च यावत्प्रपशयतीति ॥ २३ ॥ तावदिति । तावद्वृषभं ददर्श । पीयूषस्यामृतस्य मथनेनोद्भूतं यन्नवनीतं तस्य पिण्डवत्स्थितम् । अतिशुद्धत्वसूचनायेदमुक्तम् ॥ २४ ॥ प्रोतेति । प्रोतं शुङ्गाग्रे खचितं स्वर्णं सुवर्णं यस्य तं तथोक्तं मरकतस्य छाया कान्तिः तद्वत्कान्तिर्यस्य तादृशेन शूङ्गद्वयेनाञ्चितं रमणीयमित्यर्थः । नीलरत्नमिन्द्रनीलमणिस्तद्वदीक्षणे यस्य तं । ह्रस्वेन गलकम्बलेन सास्नया भूषितम् ॥ २५ ॥ रत्नेति । पल्याणं पृष्ठास्तरणं तेन संयुक्तम् । घण्टिकाः क्षुद्रघण्टाः घर्घर्यस्तदवान्तरभेदास्तासां शब्दैः दिशः पूरयन्तम् ॥ २६ ॥ तत्रेति । तत्र तस्मिन्पूर्वोक्ते वृषभे समासीनं महादेवं ददर्श रघुनन्दन इति वक्ष्यमाणेनान्वयः ॥ २७ ॥ २८ ॥ नीलकण्ठमिति । नानाविधान्यायुधानि तैरुद्भासितुं शीलं येषां ते तथोक्ताः तादृशा दशसंख्याका बाहवो यस्य तं तथोत्तम् । सुप्यजातौ” इति सुब्ग्रहणं प्रादिषु प्रवृ-