पुटमेतत् सुपुष्टितम्



३९
बालानन्दिनीव्याख्यासहिता ।

 

सौन्दर्यसारसंदोहां ददर्श रघुनन्दनः।
स्वस्ववाहनसंबद्धान्नानायुधलसत्करान् ॥ ३६ ॥
बृहद्रथन्तरादीनि सामानि परिगायतः ॥
स्वस्वकान्तासमायुक्तान्दिक्पालान्परितः स्थितान् ॥ ३७ ॥
अग्रगं गरुडारूढं शङ्कचक्रगदाधरम् ।
कालाम्बुदप्रतीकाशं विद्युत्कान्तश्रिया युतम् ॥ ३८ ॥
जपन्तमेकमनसा रुद्राध्यायं जनार्दनम् ।
पश्चाच्चतुर्मुखं देवं ब्रह्माणं हंसवाहनम् ॥ ३९ ॥
चतुर्वक्त्रैश्चतुर्वेदरुद्रसूक्तैर्महेश्वरम् ।
स्तुवन्तं भारतीयुक्तं दीर्घकूर्चं जटाधरम् ॥ ४० ॥


सितुं शीलं यस्य स तथाभूतो विग्रहो देहो यस्यास्तां सच्चिदानन्दरूपाढ्यां तत्स्वरूपामित्यर्थ: । सच्चिदानन्दस्वरूपलक्षणेन शिवशक्त्योरभेदः सूचितः । जगन्मातरं विवतोंपादानभूतामित्यर्थः । अतएवाम्बिकां जगज्जननीम् ॥ ३५ ॥ सौन्दर्येति । सौन्दर्यसारस्य संदोहो मेलनं यस्यास्ताम् । बहुव्रीहेर्विशेष्यनिघ्नत्वात्स्त्रीत्वम् । षष्ठीतत्पुरुषे तुं परवल्लिङ्गतया पुंस्त्वं स्यात् । स्वस्ववाहनैरैरावतादिभिः संबद्धान् संयुक्तान् । नानायुधैर्वज्रादिभिर्लसन्तः करा येषां तान् ॥ ३६ ॥ बृहदिति । बृहद्रथन्तरादिसामानि तद्भेदानित्यर्थः । स्वस्वकान्ताभिः स्त्रीभिः संयुक्तान्परितः समन्तात्स्थितान् ॥ ३७ ॥ अग्रगमिति । कालाम्बुजं नीलोत्पलम् , कालाम्बुद इति वा तत्सदृशम् । “कालशयामलमेचकाः” इत्यमरः । विद्युत्तङित्तद्वत्कान्ता स्फुरन्ती या श्रीः तया युतं युक्तम् । अनेन विशेषणेन कालाम्बुदसादृश्यमेवोचितमिति प्रतीयते ॥ ३८ ॥ जपन्तमिति । रुद्राध्यायं "नमस्ते रुद्रमन्यव" इति प्रसिद्धम् ॥ ३९ ॥ चतुर्वत्क्त्रैरिति । चतुर्भिर्वक्रैः चतुर्षु वेदेषु यानि रुद्रसूक्तानि तैः भारती सरस्वती तया युक्तं तथोक्तम्-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/42&oldid=297806" इत्यस्माद् प्रतिप्राप्तम्