पुटमेतत् सुपुष्टितम्



४०
[ अध्यायः ४
शिवगीता ।

 
अथर्वशिरसा देवं स्तुवन्तं मुनिमण्डलम् ।
गङ्गादितटिनीयुक्तमम्बुधिं नीलविग्रहम् ॥ ४१ ॥
श्वेताश्वतरमन्त्रेण स्तुवन्तं गिरिजापतिम् ।
अनन्तादिमहानागान्कैलासगिरिसंनिभान् ॥ ४२ ॥
कैवल्योपनिषत्पाठान्मणिरत्नविभूषितान्।
सुवर्णवेत्रहस्ताढ्यं नन्दिनं पुरतः स्थितम् ॥ ४३ ॥
दक्षिणे मूषकारूढं गणेशं पर्वतोपमम् ।
मयूरवाहनारूढमुत्तरे षण्मुखं तथा ॥ ४४ ॥
महाकालं च चण्डेशं पार्श्वयोर्भीषणाकृतिम् ।
कालाग्निरुद्रं दूरस्थं ज्वलद्दावाग्निसंनिभम् ॥ ४५ ॥
त्रिपादं कुटिलाकारं नटद्भृङ्गिरिटिं पुरः ।
नानाविकारवदनान्कोटिशः प्रमथाधिपान् ॥ ४६ ॥


दीर्घाः कूर्चाः श्मश्रूणि यस्य तम् । ‘कूर्चो विकथने मध्ये भ्रुवोः श्मश्रुणि कैरवे” इति विश्वः । जटानां धरम् ॥ ४० ॥ अथर्वेति । अथर्वशिरसा उपनिषद्विशेषेणेत्यर्थः। देवं महादेवं मुनीनां मण्डलम् । मण्डलशब्दस्त्रिलिङ्गयाम् । गङ्गादितटिन्यः नद्यः ताभिर्युक्तं अम्बुधिं समुद्रं नीलविग्रहं श्यामलदेहम् ॥ ४१ ॥ श्वेताश्वतरशाखिनां मन्त्रेण स्तुवन्तम् ॥ ४२ ॥ कैवल्येति । कैवल्योपनिषदं पठन्ति ते तथोक्तास्तान्। सुवर्णवेत्रसहितेन हस्तेनाढ्यम् ॥ ४३ ॥ दक्षिण इति । मूषक इति धातुवृत्तौ स्फुटम् । मूषिक इति प्रामादिकः । ददर्शेति सर्वत्र संबन्धो ज्ञेयः ॥ ४४ ॥ महाकालमिति । महाकालं चण्डेशं च द्वौ प्रथमविशेषौ कालाग्निरुद्रं अवतारम् । ज्वलन् यो दावाग्निर्वनाग्निस्तेन सदृशमिति नित्यसमासत्वादस्वपदविग्रह इति ज्ञेयम् ॥४५॥ त्रिपादमिति । नटंश्चासौ भृङ्गिरिटिश्च तं तथोक्तं,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/43&oldid=298103" इत्यस्माद् प्रतिप्राप्तम्