पुटमेतत् सुपुष्टितम्



४१
बालानन्दिनीव्याख्यासहिता ।

 
नानावाहनसंयुक्तं परितो मातृमण्डलम् ।
पञ्चाक्षरीजपासक्तान्सिद्धविद्याधरादिकान् ॥ ४७ ॥
दिव्यरुद्रकगीतानि गायत्किन्नरवृन्दकम् ।
तत्र त्रैयम्बकं मन्त्रं जपद्द्विजकदम्बकम् ॥ ४८ ॥
गायन्तं वीणया गीतं नृत्यन्तं नारदं दिवि ॥
नृत्यतो नाट्यनृत्येन रम्भादीनप्सरोगणान् ॥ ४९ ॥
गायच्चित्ररथादीनां गन्धर्वाणां कदम्बकम् ॥
कम्बलाश्वतरौ शंभुकर्णकुण्डलतां गतौ ॥ ५० ॥
गायन्तौ पन्नगौ गीतं कपालं कम्बलं तथा ।
एवं देवसभां दृष्ट्वा कृतार्थो रघुनन्दनः ॥ ५१ ॥
हर्षगद्गदया वाचा स्तुवन्देवं महेश्वरम् ।
दिव्यनामसहस्रेण प्रणनाम पुनःपुनः ॥ ५२ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे शिवप्रादुर्भावो नाम चतुर्थोऽध्यायः ॥ ४ ॥



अयमपि प्रमथविशेषः ॥४६॥ नानेति । मातॄणां मण्डलम् । "ब्राह्मीत्याद्यास्तु मातरः" इत्यमरः ॥४७॥ दिव्येति । रुद्राः कायन्ते उच्चार्यन्त इति रुद्रकाणि दिव्यानि च तानि तथोक्तानि तान्येव गीतानि तद्गायतीति तद्गायत्किंनरवृन्दकम् द्विजानां ब्राह्मणानां कदम्बकम् ॥४८॥ गायन्तमिति । अङ्गविक्षेपमात्रं नृत्तं, पदार्थाभिनयो नृत्यं, वाक्याभिनयो नाट्यमिति भेदः ॥ ४९ ॥ गायदिति । शंभोः कर्णौ तत्र कुण्डलतां गतौ ॥ ५० ॥ गायन्ताविति । कपालं कम्बलं च एतन्नामानौ पन्नगौ ददर्श । एवमुक्तप्रकारेण ॥ ५१ ॥ ५२ ॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां चतुर्थीऽध्यायः ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/44&oldid=298114" इत्यस्माद् प्रतिप्राप्तम्