पुटमेतत् सुपुष्टितम्



४२
[ अध्यायः ५
शिवगीता ।

 

पञ्चमोऽध्यायः ५
श्रीसूत उवाच ।


अथ प्रादुरभूत्तत्र हिरण्मयरथो महान् ॥
अनेकदिव्यरत्नांशुकिर्मीरितदिगन्तरः ॥ १ ॥
नद्युपान्तिकपङ्काढ्यमहीचक्रचतुष्टयः ।
मुक्तातोरणसंयुक्तः श्वेतच्छत्रशतावृतः ॥ २ ॥
शुद्धहेमखुरैराढ्यतुरंगगणसंयुतः ।
मुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥ ३ ॥
मत्तवारणिकायुक्तः पञ्चतत्त्वोपशोभितः ॥
पारिजाततरूद्भूतपुष्पमालाभिरञ्जितः ॥ ४ ॥
मृगनाभिसमुद्भूतकस्तूरीमदपङ्किलः ।
कर्पूरागरुधूपोत्थगन्धाकृष्टमधुव्रतः ॥ ५ ॥
संवर्तघनघोषाढ्यो नानावाद्यसमन्वितः ।
वीणावेणुस्वनासक्तकिन्नरीगणसंकुलः ॥ ६ ॥


सूत उवाच-अथेति । अथ सहस्रनामपाठानन्तरम् । हिरण्यप्रचुरो हिरण्मयः स चासौ रथश्च तथा । किर्मीरितं चित्रवर्णं कृतम् ॥ १ ॥ नदीति । नद्या गौतम्या उपान्तिकेन उपान्ते भवेन पङ्केन कर्दमेन आढ्यं लिप्तं महाचक्राणां चतुष्टयं यस्य स तथोक्तः मुक्तामयेन तोरणेन संयुक्तः ॥ २ ॥ शुद्धेति । शुद्धं यद्धेम तत्प्रचुराः खुराः तैराढ्या ये तुरंगगणास्तैः संयुक्तः । मुक्तावितानं मुक्ताफलनिर्मितं वितानमुल्लोचस्तेन विलसन्नूर्ध्वस्थः दिव्यो वृषो यस्य स तथा एवंभूतो ध्वजो यस्य स तथा ॥ ३ ॥ मत्तेति वारणिकाः करिण्यः पञ्चतत्त्वैस्तदधिष्ठातृदेवैरुपशोभितः अभिरञ्जितो भूषितः ॥ ४ ॥ मृगेति। पङ्किलः संजातपङ्कः । आकृष्टा बलादानीता मधुव्रता भ्रमरा यस्मिन्स तथा।५।। संवर्त्तेति। संवर्ते प्रलये ये घनास्तेषां घोष इव घो-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/45&oldid=298135" इत्यस्माद् प्रतिप्राप्तम्