पुटमेतत् सुपुष्टितम्



४३
बालानन्दिनीव्याख्यासहिता ।

 
एवं कृत्वा रथश्रेष्ठं वृषादुत्तीर्य शंकरः ।
अम्बया सहितस्तत्र पटतल्पेऽविशत्तदा ॥ ७ ॥
सुरनीरजनेत्रीणां श्वेतचामरचालनैः ।
दिव्यव्यजनवातैश्च प्रहृष्टो नीललोहितः ॥ ८ ॥
क्वणत्कङ्कणनिध्वानैर्मञ्जुमञ्जीरसिंजितैः ॥
वीणावेणुस्वनैर्गीतैः पूर्णमासीज्जगत्रयम् ॥ ९ ॥
शुकवाक्यकलारावैः श्वेतपारावतस्वनैः ॥
उन्निद्रभूषाफणिनां दर्शनादेव बर्हिणः ॥
ननृतुर्दर्शयन्तः स्वांश्चन्द्रकान्कोटिसंख्यया ॥ १० ॥
प्रणमन्तं यतो राममुत्थाप्य वृषभध्वजः ॥
आनिनाय रथं दिव्यं प्रहृष्टेनान्तरात्मना ॥ ११ ॥


षस्तेनाढ्यः वीणादिस्वनासक्तेन किन्नरीगणेन संकुलः ॥६॥ एवमिति । पटतल्पे पटास्तरणे ॥ ७ ॥ सुरेति । सुराणां नीरजनेत्र्यः पद्मदृशस्तासां कण्ठे नीलः केशेषु लोहित इति नीललोहित इत्यर्थः ॥ ८ ॥ क्वणदिति । क्वणतां शब्दं कुर्वतां कङ्कणानां निध्वानैः शब्दैः । "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । सिंजितं भूषणध्वनिः । "भूषणानां तु सिंजितम्" इति च कोशः ॥ ९ ॥ शुकवाक्येति । शुकानां कीराणां वाक्यरूपा ये कलारावाः अव्यक्तमधुरशब्दास्तैर्जगत्रयं पूर्णमासेति प्राक्तनेनान्वयः । उन्निद्राणां हषादुल्लसतां भूषाफणिनां दर्शनादेव हेतोः बर्हिणो मयूराः कोटिसंख्ययोपलक्षितान्स्वानात्मीयान् चन्द्रकान् चन्द्र इव चन्द्रकास्तान् मेचकापरपर्यायान् “इवे प्रतिकृतौ इति कन् । दर्शयन्तो ननृतुरित्यन्वयः ॥ १० ॥ प्रणमन्तमिति । रथचक्रोपरि मस्तकं निधाय प्रणमन्तं रामं वृषध्वजः शिव उपरिस्थत्वान्नतो नम्रः सन्नुत्थाप्य प्रहृप्टेनान्तरात्मना मनसा । इदं लीलाविग्रहत्वाद्युक्तम् । अन्यथा "अप्राणो ह्यमनाः शुभ्रः” इति श्रुतिवि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/46&oldid=298150" इत्यस्माद् प्रतिप्राप्तम्