पुटमेतत् सुपुष्टितम्



४४
[ अध्यायः ५
शिवगीता ।

 
कमण्डलुजलैः स्वच्छैः स्वयमाचम्य यत्नतः ।
समाचाम्याथ पुरतः स्वाङ्के राममुपानयत् ॥ १२ ॥
अथ दिव्यं धनुस्तस्मै ददौ तूणीरमक्षयम् ॥
महापाशुपतं नाम दिव्यमस्त्रं ददौ ततः ॥ १३ ॥
उक्तश्च तेन रामोऽपि सादरं चन्द्रमौलिना ॥
जगन्नाशकरं रौद्रमुग्रमस्त्रमिदं नृप ॥ १४ ॥
अतो नेदं प्रयोक्तव्यं सामान्यसमरादिके ।
अन्यो नास्ति प्रतीघात एतस्य भुवनत्रये ॥ १५ ॥
तस्मात्प्राणात्यये राम प्रयोक्तव्यमुपस्थिते ॥
अन्यदैतत्प्रयुक्तं चेज्जगत्संक्षयकृद्भवेत् ॥ १६ ॥
अथाहूय सुरश्रेष्ठान्लोकपालान्महेश्वरः ।
उवाच परमप्रीतः स्वंस्वमस्त्रं प्रयच्छत ॥ १७ ॥
राघवोऽयं च तैरस्त्रै रावणं निहनिष्यति ।
तस्मै देवैरवध्यत्वमिति दत्तो वरो मया ॥ १८ ॥


रोधः स्यात् । दिव्यं रथं आनिनाय प्रापयामासेत्यन्वयः ॥ ११ ॥ कमण्डल्विति । स्वयं कमण्डलुजलैराचम्य राममाचाम्याचमनं कारयित्वा स्वस्याङ्के उत्सङ्गे "उत्सङ्गचिह्नयोरङ्कः" इत्यमरः । उपानयद्गृहीतवानित्यर्थः ॥ १२॥ अथेति । स्वाङ्क उपवेशानन्तरं तस्मै रामाय ॥ १३ ॥ उक्त इति । इदं सूतवाक्यं मुनीन्प्रति । किमुक्तस्तदेवाह-जगदिति । रौद्रं रुद्रदेवताकम् ॥ १४ ॥ अत इति । प्रतीघातः प्रतीकारः ॥ १५ ॥ तस्मादिति । प्राणात्यये उपस्थिते प्राप्ते सति एतत्प्रयोक्तव्यम् । विपक्षे बाधकमाह-अन्यदेति । पूर्वोक्तसंकटाभावकाले ॥ १६ ॥ अथेति । स्वास्त्रोपदेशानन्तरम् । यूयं स्वंस्वमस्त्रं रामायेति शेषः ॥ १७ ॥ एतेन युष्माकमेवेष्टं भविष्यती--

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/47&oldid=298244" इत्यस्माद् प्रतिप्राप्तम्