श्रीराम उवाच ।
भगवन्मानुषैरेव नोल्लङ्घ्यो लवणाम्बुधिः ॥
तत्र लङ्काभिधं दुर्गं दुर्जयं देवदानवैः ॥ २५ ॥
अनेककोटयस्तत्र राक्षसा बलवत्तराः ।
सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः ॥ २६ ॥
अनेकमायासंयुक्ता बुद्धिमन्तोऽग्निहोत्रिणः ॥
कथमेकाकिना जेया मया भ्रात्रा च संयुगे ॥ २७ ॥
ईश्वर उवाच ।
रावणस्य वधे राम रक्षसामपि मारणे ।
विचारो न त्वया कार्यस्तस्य कालोऽयमागतः ॥ २८ ॥
अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने।
तस्मादायुः क्षयं यातं तेषां श्रीरपि सुव्रत ॥ २९ ॥
राजस्त्रीलङ्घनासक्तं रावणं निहनिष्यसि ॥
पानासक्तो रिपुर्जेतुं सुकरः समराङ्गणे ॥ ३० ॥
ज्ञापितवान् ॥ २४ ॥ भगवन्निति । एवकारः कार्त्स्न्ये । सर्वैरपि मनुष्यैरित्यर्थः । किंच तत्र दुर्गमस्ति । तदपि न साधारणमित्याह-दुर्जयमिति ॥ २५ ॥ रक्षका अपि दुर्जया इत्याह-अनेकेति । शिवभक्ता इत्यनेन शिवभक्तानां द्रोहो न कल्याणाय कल्पत इंति ध्वनितम् । ननु एकशब्दस्य नित्यैकवचनान्ततया नञ्समासस्योत्तरप्राधान्यतया अनेकशब्दोऽपि नित्यैकवचनान्त एव । किंच कोटिशब्दस्यापि बहुवचनान्तत्वमनुपपन्नम् "विंशत्याद्याः सदैकत्वे" इत्यमरात् । तथाच अनेकाश्च ताः कोटयश्चेति कथं संभवतीति चेत्सत्यम् । अनेकशब्दानां बहूनामेकशेषे तदुपपत्तेः संख्याव्यक्तिबहुत्वे च बहुवचनोपपत्तेश्ध ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ राजस्त्री सीता तस्या लङ्घनमवज्ञा तस्यामासक्तम् । पानासक्तो मद्यपः सु-