अधर्मनिरतः शत्रुर्भाग्येनैव हि लभ्यते ।
अधीतवेदशास्त्रोऽपि सदा धर्मरतोऽपि वा । ।
विनाशकाले संप्राप्ते धर्ममार्गाच्च्युतो भवेत् ॥ ३१ ॥
पीड्यन्ते देवताः सर्वाः सततं येन पापिना ।
ब्राह्मणा ऋषयश्चैव तस्य नाशः स्वयं स्थितः ॥ ३२ ॥
किष्किन्धानगरे राम देवानामंशसंभवाः ।
वानरा बहवो जाता दुर्जया बलवत्तराः ॥ ३३ ॥
साहाय्यं ते करिष्यन्ति तैर्बधान पयोनिधिम् ।
अनेकशैलसंबद्धे सेतौ यान्तु बलीमुखाः ।
रावणं सगणं हत्वा तामानय निजप्रियाम् ॥ ३४ ॥
शस्त्रैर्युद्धे जयो यत्र तत्रास्त्राणि न योजयेत् ।
निरस्त्रेष्वल्पशस्त्रेषु पलायनपरेषु च ।
अस्त्राणि मुञ्चन्दिव्यानि स्वयमेव विनश्यति ॥ ३५ ॥
अथवा किं बहूक्तेन मयैवोत्पादितं जगत् ॥
मयैव पाल्यते नित्यं मया संह्रियतेऽपि च ॥ ३६ ।।
शक्यः ॥ ३० ॥ धर्मिष्ठः शत्रुरेव जेतुमशक्यः । अयं तु न तथेत्यन्यापदेशेनाह-अधर्मेति । अधर्म एव विनाशहेतुरित्याह-अधीतेति ॥ ३१॥ पीड्यन्त इति । तस्य नाशः स्वयमेवोपस्थितः । त्वं निमित्तमात्रं भवेति भावः ॥ ३२ ॥ सहायानाह--किष्किन्धेति ॥ ३३ ॥ साहाय्यमिति । बधान समुद्रबन्धनं कुर्वित्यर्थः । बलीमुखाः कपयः । आनयेत्याशिषि लोट् ॥ ३४ ॥ महाशस्त्रप्रयोगार्हानर्हशत्रुविचारमाह-शस्त्रैरिति ॥ ३५ ॥ चिन्ता न कार्येति स-