अहमेको जगन्मृत्युर्मृत्योरपि महीपते ।
ग्रसेऽहमेव सकलं जगदेतच्चराचरम् ॥ ३७ ॥
मम वक्रगताः सर्वे राक्षसा युद्धदुर्मदाः ॥
निमित्तमात्रस्त्वं भूयाः कीर्तिमाप्स्यसि संगरे ॥ ३८ ॥
इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
षष्ठोऽध्यायः ६
श्रीराम उवाच ।
भगवन्नत्र मे चित्रं महदेतत्प्रजायते ।
शुद्धस्फटिकसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ॥ १ ॥
मूर्तस्त्वं तु परिच्छिन्नाकृतिः पुरुषरूपधृक् ।
अम्बया सहितोऽत्रैव रमसे प्रमथैः सह ॥ २ ॥
त्वं कथं पञ्चभूतादि जगदेतच्चराचरम् ।
तद्ब्रूहि गिरिजाकान्त यदि तेऽनुग्रहो मयि ॥ ३ ॥}}
माश्वासयन्नुपसंहरति--अथवेति त्रिभिः ॥ ३६ ॥ ३७ ॥ ३८ ॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां पञ्चमोऽध्यायः ॥ ५ ॥ पूर्वाध्यायान्ते जगज्जन्मादिकर्तृत्वं प्रतिपादितं तन्मूर्तस्य कथमुपपद्यत इति शङ्कां कुर्वन् श्रीराम उवाच-भगवन्निति । हे भगवन्, अत्र सृष्ट्यादिकर्ताहमेवेत्येवंरूपे त्वदुक्तेऽर्थे मे मम महच्चित्रं महाश्चर्यं प्रजायते । आश्चर्ये बीजमाह-शुद्धेत्यादिना ॥ १ ॥ मूर्त इति । मूर्तः परिच्छिन्नः । अतएव परिच्छिन्नाकृतिः । पुरुषरूपेण धृष्णोतीति तथोक्तः । ‘ऋत्विक्’ इति सूत्रे निपातनात्कुत्वम् ॥२॥ त्वं कथमिति । एवंभूतस्त्वं पञ्चभूतान्यादिर्यस्य तथाभूतमेतच्चराचरं करोषि