श्रीभगवानुवाच ।
शृणु राम महाभाग दुर्ज्ञेयममरैरपि ।
तत्प्रवक्ष्यामि यत्नेन ब्रह्मचर्येण सुव्रत ।
पारं यास्यस्यनायासाद्येन संसरनीरधेः ॥ ४ ॥
दृश्यन्ते पञ्चभूतानि ये च लोकाश्चतुर्दश ॥
समुद्राः पर्वता देवा राक्षसा ऋषयस्तथा ॥ ५ ॥
दृश्यन्ते यानि चान्यानि स्थावराणि चराणि च ।
गन्धर्वाः प्रमथा नागाः सर्वे ते मद्विभूतयः ॥ ६ ॥
पुरा ब्रह्मादयो देवा द्रष्टुकामा ममाकृतिम् ।
मन्दरं प्रययुः सर्वे मम प्रियतरं गिरिम् ॥ ७ ॥
पालयसि हंसि चेति शेषः । सर्वात्मकत्वं जगदेतदिति तु नाक्षिप्यते । तस्य पूर्वाध्यायान्तेऽनुपक्रान्तत्वात् । तथाच शङ्कितुरयमाशयः । परिच्छिन्नदेहस्य कुलालादेर्विप्रकृष्टकार्यजनकत्वानुपपत्त्तिरित्यादि ॥ ३ ॥ शृण्विति । हे राम, यत्नेन ब्रह्मचर्येण शृणु । यदमरैरपि दुर्ज्ञेयं तत्प्रवक्ष्यामि तुभ्यमिति शेषः । येन ज्ञानेन ॥ ४ ॥ यथा जीवस्याहंकारवृत्तिसापेक्षं कर्तृत्वं तथा न मम कर्तृत्वं किंतु मायावृत्तिसापेक्षस्य लीलाविग्रहस्य परिच्छिन्नत्वेऽपि कर्तृत्वांशानुपयोगान्न कश्चिद्दोषः । मम मायायाश्च सर्वाङ्गत्वात्समस्तजगदुपादानत्वमस्तीत्यतो मयि शङ्कां मा कार्षीरित्याशयेनाह--दृश्यन्त इति द्वाभ्याम् । पञ्चभूतादि सर्वं माया तत्कार्यं च मयि विवर्तमात्रं सुवर्णेऽलंकारभेदवन्मायाया इदं सर्वं परिणामः । दुग्धस्य दधीव ॥ ५ ॥ ६ ॥ इममेवार्थं पूर्वकथोपन्यासेन द्रढयति-पुरेति । आकृतिं