स्तुत्वा प्राञ्जलयो देवा मां तथा पुरतः स्थिताः ॥
तान्दृष्ट्वाथ मया देवॉल्लीलाकुलितचेतसः ॥
तेषामपहृतं ज्ञानं ब्रह्मादीनां दिवौकसाम् ॥ ८ ॥
आसंस्तेऽसकृदज्ञाना मामाहुः को भवानिति ।
अथाब्रुवमहं देवानहमेव पुरातनः ॥ ९ ॥
आसं प्रथममेवाहं वर्तामि च सुरेश्वराः ।
भविष्यामि च लोकेऽस्मिन्मत्तो नान्योऽस्ति कश्चन ॥१०॥
व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किंचित्सुरेश्वराः ।
नित्योऽनित्योऽहमनघो ब्रह्मणां ब्रह्मणस्पतिः ॥ ११ ॥
लीलाविग्रहम् ॥ ७ ॥ स्तुत्वेति । मां स्तुत्वा प्राञ्जलयः सन्तस्तथैव पुरत: स्थिताः तान्मदीयलीलया आकुलितं चेतो येषां तथाभूतान्दृष्ट्वा मया तेषां ज्ञानमपहृतम् । प्रश्नावतरणपूर्वकं परमतत्त्वोपदेशार्थमिति भावः ॥ ८ ॥ आसन्निति । अज्ञाना ज्ञानशून्या आसन् । भवान्क इति मामाहुः । असकृद्वारंवारम् । 'अथ तेऽपहृतज्ञाना' इत्यपि पाठान्तरम् । अथ तेषां प्रश्नानन्तरं देवानहमब्रुवम्। अहमेव पुरातन इति ॥ ९ ॥ ननु "जीव ईशो विशुद्धा चित्तस्यां भेदस्तयोर्द्वयोः । अविद्याचित्तयोर्योगः षडस्माकमनादयः ॥” इति सिद्धान्ते उक्तं तत्र कथमहमेव पुरातन इत्युक्तमितिचेत्तत्राह--आसमिति । मत्तोऽन्योऽविद्यातत्संबन्धादिः कोऽपि परमार्थिको नास्तीत्यर्थः । तथाच श्रुतिः । "ते दैवा रुद्रमपृच्छन् को भवानिति । सोऽब्रवीत् अहमेकः प्रथममासं वर्तामि च भविष्यामि च" इत्यादि । तथाच कल्पितभावाभावयोरधिष्ठानमात्रस्वरूपत्वं रज्जुसर्पादौ प्रसिद्धमिति भावः ॥ १० ॥ व्यतिरिक्तमिति । पूर्वमुक्तोऽप्यर्थः पुनरभ्यस्यते । अभ्यासो हि तात्पर्यलिङ्गम्। तदुक्तम्-"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये" इति । नित्य इति स्वरूपेण !