पुटमेतत् सुपुष्टितम्



५१
बालानन्दिनीव्याख्यासहिता ।

 
दक्षिणाञ्च उदञ्चोऽहं प्राञ्चः प्रत्यञ्च एव च ।
अधश्चोर्ध्वं च विदिशो दिशश्चाहं सुरेश्वराः ॥ १२ ॥
सावित्री चापि गायत्री स्त्री पुमानपुमानपि ।
त्रिष्टुप् जगत्यनुष्टुप् च पङ्किश्छन्दस्त्रयीमयः ॥ १३ ॥
सत्योऽहं सर्वतः शान्तस्त्रेताग्निर्गौरवं गुरुः ।
गौरवं गह्वरं चाहं द्यौरहं जगतां प्रभुः ॥ १४ ॥
ज्येष्ठः सर्वसुरश्रेष्ठो वर्षिष्ठोऽहमपांपतिः ॥
आर्योऽहं भगवानीशस्तेजोऽहं चादिरप्यहम् ॥ १५ ॥


अनित्यः घटादितादात्म्यात् । ब्रह्मणां वेदानां ब्रह्मणश्चतुर्मुखस्य । अविद्यारहितत्वादनघः ॥ ११ ॥ दक्षिणेति । दक्षिणस्यामञ्चतीति दक्षिणाञ्चः । उदुत्तरस्यामञ्चतीति तथा । प्रपूर्वस्यां प्राग्वत् । अधश्चोर्ध्वं चाञ्चतीति शेषः । दिशो विदिशश्चेति सर्वत्र परिपूर्ण इत्यर्थः ॥ १२ ॥ स्वस्य सर्वतादात्म्यापन्नत्वात्सर्वस्वरूपत्वमाह--सावित्रीति । एकस्या एव गायत्र्याः कालभेदान्नामभेदः । "गायत्री नाम पूर्वाह्णे सावित्री प्रथमे दिने” इति । इदं सरस्वत्या अप्युपलक्षणम् । स्त्र्यादिव्यक्तित्रयमहमेव । अपुमान्नपुंसकमित्यर्थः । त्रिष्टुबित्यादिविशेषरूपोऽहम् । त्रयीमय ऋगादिवेदत्रयप्रचुरः तत्प्रतिपाद्यस्वरूपोऽहम् ॥ १३ ॥ सत्य इति । मिथ्याभूतानामविद्यातत्कार्याणामधिष्ठाने मयि त्रैकालिकनिषेधप्रतियोगित्वादहमेव परमार्थसत्य इत्युक्तं स्मारयति । अतएव सर्वतः सर्वेभ्यः प्रातिभासिकव्यावहारिकसत्येभ्य इत्यर्थः । सार्वविभक्तिकस्तसिः । शान्तः आविद्यकधर्मैरक्षुब्धः । त्रेताग्निराहवनीयादिः । गौरवं गुरोः कर्माध्ययनादि । गुरुश्चाहम् । गौर्वाक् गह्वरं रहस्यं द्यौः स्वर्गः प्रभुर्नियन्ता ॥ १४ ॥ ज्येष्ठ इति । ज्येष्ठः सर्वेषामादिभूतत्वात् । वर्षिष्ठः ज्ञानेन बद्धतरत्वात् । अपांपतिः समुद्रः । आर्यः पूज्यतमत्वात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/54&oldid=298663" इत्यस्माद् प्रतिप्राप्तम्