पुटमेतत् सुपुष्टितम्



५२
[ अध्यायः ६
शिवगीता ।

 
ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः ।
अथर्वणश्च मन्त्रोऽहं तथा चाङ्गिरसो वरः ॥ १६ ॥
इतिहासपुराणानि कल्पोऽहं कल्पवानहम् ।
नाराशंसी च गाथाहं विद्योपनिषदोऽस्म्यहम् ॥ १७ ॥
श्लोकाः सूत्राणि चैवाहमनुव्याख्यानमेव च ॥
व्याख्यानानि तथा विद्या इष्टं हुतमथाहुतिः ॥ १८ ॥
दत्तादत्तमयं लोकः परलोकोऽहमक्षरः ।
क्षरः सवाणि भूतानि दान्तिः शान्तरहं खगः ॥ १९ ॥
गुह्योऽहं सर्ववेदेषु आरण्योऽहमजोऽप्यहम् ॥
पुष्करं च पवित्रं च मध्यं चाहमतःपरम् ।
बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः ॥ २० ॥


भगवान् षड्गुणत्वात् । "ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥" इङ्गना संज्ञा । तेजोऽहम् । आदिस्तेजसः वायुरित्यर्थः ॥ १५ ॥ ऋग्वेद इति ॥ अथर्वणोऽङ्गिरसश्च मन्त्रो यः स चतुर्थो वेदः सचाहमित्यर्थः ॥ १६ ॥ इतिहासो भारतादिः । पुराणानि ब्रह्मादीनि । कल्पः प्रयोगः । कल्पवान् तत्कर्ता बौधायनादिः । नाराशंसी नाम रुद्रप्रतिपादकमन्त्रविशेषः । गाथा यज्ञप्रशंसादिः । विद्या उपासना "येऽन्नं ब्रह्मोपासते" इत्यादिः । उपनिषदः ब्रह्मप्रतिपादिका विद्याः ॥ १७ ॥ श्लोकाः "तदप्येष श्लोको भवति” इत्यादिलक्षणाः । सूत्राणि ऋषिकृतानि । अनुव्याख्यानानि शास्त्रेषु । विद्या गान्धर्वविद्याः । इष्टं यागः । हुतं होमः । आहुतिर्द्रव्यम् ॥ १८ ॥ दत्त इति । दत्तो दानकर्मीभूतो गवादिः । दत्तं दानम् । लोकः इहलोकः । परलोकः पुण्याद्रीनां फलीभूतः स्वर्गादिः ॥ १९ ॥ बहिरिति । बहेिश्चाहमित्यादि दक्षिणाञ्च इत्यादिनोक्तमप्यभ्यासार्थं पुनरुक्तम् । एतदेवास्मि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/55&oldid=298664" इत्यस्माद् प्रतिप्राप्तम्