पुटमेतत् सुपुष्टितम्
५४
[ अध्यायः ६
शिवगीता ।

 
अहमेवोपसंहर्ता महाग्रासौजसां निधिः ।
हृदये देवतात्वेन प्राणत्वेन प्रतिष्ठितः ॥ २८ ॥
शिरश्चोत्तरतो यस्य पादौ दक्षिणतस्तथा ।
यस्य सर्वोऽन्तरः साक्षादोंकारोऽहं त्रिमात्रकः ॥ २९ ॥
ऊर्ध्वमुन्नामये यस्मादधश्चापनयाम्यथ।
तस्मादोंकार एवाहमेको नित्यः सनातनः ॥ ३० ॥
ऋचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि ।
प्रणामये ब्राह्मणेभ्यस्तेनाहं प्रणवो मतः ॥ ३१ ॥
स्नेहो यथा मांसखण्डं व्याप्नोति व्यापयत्यपि ।
सर्वलोकानहं तद्वत्सर्वव्यापी ततोऽस्म्यहम् ॥ ३२ ॥


ग्रेभवम् ॥ २७ ॥ अहमेवेति । महान्तो नगसागराद्याः ग्रासा भक्ष्याणि येषां तेषां तेजसां प्रलयाग्न्यादीनां निधिरधिष्ठानम् । प्राणिनां हृदये देवतात्वप्राणत्वाभ्यां प्रतिष्ठितश्चाहमेव ॥ २८ ॥ शिर इति । यस्याञ्त्रूपस्य स्पर्शा उत्तरत उत्तरस्यां दिशि शिरः । ऊष्माणो दक्षिणतः दक्षिणस्यां दिशि पादौ । अन्तस्थसंज्ञः सर्वोऽपि यस्यान्तरो मध्यभागः । स साक्षादोंकारोऽहं । कयापि विवक्षया भागकल्पना कृतेति ज्ञेयम् ॥ २९ ॥ ऊर्ध्वमिति । यस्मात्प्राणिनो जापकानूर्ध्वं स्वर्गादिकं प्रति उन्नामयेऽपनयामि अथ पुण्ये क्षीणे सति अधः नयामि च । तस्मादोंकारः ॥ ३० ॥ प्रकारान्तरेण निर्वक्ति-ऋच इति । योऽहं ब्रह्माख्यऋत्विग्विशेषः सन् ऋगादीनि तत्तदृत्विजः प्रति प्रणामये उपयामि तेन कारणेनाहं प्रणवो मतः ॥ ३१ ॥ स्नेह इति । स्नेहो घृतादिद्रव्यं मांसखण्डं कर्म व्याप्नोति । तस्मिन्मांसखण्डे भुक्ते स स्थूलदेहं व्यापयति च तद्वदहमप्यधिष्ठानत्वेनानुस्यूतः सन् यतः सर्वं व्याप्नोमि सर्वलोकं व्यापयामि च । ततो-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/57&oldid=298742" इत्यस्माद् प्रतिप्राप्तम्