ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ।
ततोऽन्ये च सुरा यस्मादनन्तोऽहमितीरितः ॥ ३३ ॥
गर्भजन्मजरामृत्युसंसारभयसागरात्।
तारयामि यतो भक्तं तस्मात्तारोऽहमीरितः ॥ ३४ ॥
चतुर्विधेषु देहेषु जीवत्वेन वसाम्यहम् ।
सूक्ष्मो भूत्वाथ हृद्देशे यत्तत्सूक्ष्मः प्रकीर्तितः ॥ ३५ ॥
महातमसि मग्नेभ्यो भक्तेभ्यो यत्प्रकाशये ।
विद्युद्वदतुलं रूपं तस्माद्वैद्युत्तमस्म्यहम् ॥ ३६ ॥
एक एव यतो लोकान्विसृजामि सृजामि च ।
विवासयामि गृह्णामि तस्मादेकोऽहमीश्वरः ॥ ३७ ॥
न द्वितीयो यतस्तस्थे तुरीयं ब्रह्म यत्स्वयम् ॥
भूतान्यात्मनि संहृत्य चैको रुद्रो वसाम्यहम् ॥ ३८ ॥
हेतोः सर्वव्याप्यस्मि ॥ ३२ ॥ ब्रह्मेति । आदिश्चान्तश्च तयोः समाहार आद्यन्तम् ॥ ३३ ॥ ३४ ॥ चतुर्विधेष्विति । जरायुजाण्डजस्वेदजोद्भिज्जेषु देहेषु जीवत्वेन वसामि हृद्देशे । सूक्ष्मो भूत्वेति स्वभावतः सूक्ष्मत्वाभावेऽप्यन्तःकरणौपाधिकं सूक्ष्मत्वमस्तीत्यर्थः । एवेन "एषोऽणुरात्मा” इत्यादिश्रुतयोऽपि औपाधिकाणुपरा एव । एतेन स्वाभाविकमणुत्वं जीवस्येति वदन्तो माध्वाः परास्ताः ॥३५॥ महातमसीति । महातमसि अविद्यायां यद्यस्मात्कारणात् विद्युद्वत्तडिद्वत् एतत्सदृशमित्यर्थः । अतुलमसदृशं रूपं प्रकाशये तस्माद्वैद्युतमितिशब्दवाच्योऽस्मि ॥ ३६ ॥ एक इति । सृजामि विसृजामि संहरामि विवासयामि लोकाल्लोकान्तरं प्रापयामि गृह्णामि अनुगृह्णामि । यस्माज्जगत्सृष्ट्यादिषु ममैकस्यैव स्वातन्त्र्यमस्ति तस्मादेकशब्दभागस्मि ॥ ३७ ॥ न द्वितीय इति । यतो यस्माद्ब्रह्मणो द्वितीयो न तस्थे । किंतु आत्मनि भूतानि संहृत्य एकएव वसामि